पार्षतस्यैव सूतश्च हतशेषो भयातुरः
आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः
अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन्
ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः
पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम्
हरिं शरणमाजग्मुरपराधनिवृत्तये
तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः
शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै 3.3.1.
इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते
तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः
वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः
भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति
अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः
कान्यकुब्जे हि नकुलो भविष्यति महाबलः
सहदेवस्तु वलवाञ्जनिष्यति महामतिः
धृतराष्ट्रांश एवासौ जनिष्यत्यजमेरके
वेला नाम्ना च विख्याता तारकः कर्ण एव हि
कौरवाश्च भविष्यन्ति मायायुद्धविशारदाः 3.3.1.
मया शक्त्यवतारेण रक्षणीया हि पांडवाः
महावती पुरी रम्या मायादेवीविनिर्मिता
देवकीजठरे जन्मोदयसिंह इति स्मृतः
हत्वाग्निवंशजान्भूपान्स्थापयिष्यामि वै कलिम्
प्रेतकार्याणि ते कृत्वा भीष्मान्तिकमुपाययुः
राजधर्मान्मोक्षधर्मान्दानधर्मान्विभागशः
षट्त्रिंशदब्दराज्यं हि कृत्वा स्वर्गपुरं ययुः
गच्छध्वं मुनयः सर्वे योगनिद्रावशो ह्यहम्
इति श्रुत्वा तु मुनयो नैमिषारण्यवासिनः
द्वादशाब्दशते कालेऽतीते ते शौनकादयः
उत्थाय देवखाते च स्नानध्यानादिकाः क्रियाः
विनीतान्भगवन्भूमौ तदा तान्नृपतीन्वद