दासीदानविधिवर्णनम् भक्त्या स्नेहाच्च भवतो यत्रोक्तं केनचित्क्वचित्
चतुर्णामाश्रमाणां हि गृहस्थः श्रेष्ठ उच्यते
पूर्णेंदुबिंबवदनाः पीनोन्नतपयोधराः
जामयो यत्र पूज्यंते रमन्ते तत्र देवताः
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः
अमृतस्येव कुण्डानि सुखानामिव राशयः
श्यामा मंथरगामिन्यः पीनोन्नतपयोधराः
अहिरण्यमदासीकमल्पान्नाज्यमगोरसम्
अदण्डपाशिकं ग्राममदासीकं च यद्गृहम्
विभवाभरणा दास्यो यद्गृहं समुपासते 4.171.
न यत्रास्ति गृहे शौचं न सुखं व्यवहारजम्
यत्र कर्मकरी नास्ति सर्वकर्मकरी सदा
यदेका कुरुते दासी गृहस्थेन भृता हि सा
बुद्धिर्धर्माकुला यस्य तस्य चेतः किमाकुलम्
भृत्याः सदोद्यमपरास्त्रिवर्गस्तत्र दृश्यते
दानकालं प्रशंसंति संतः पर्वणि वा पुनः
ब्राह्मणाय प्रदातव्या मंत्रेणानेन कौरव
कर्मोपयोज्या भोज्या वा यथेष्टं भद्रमस्तु ते
अनुव्रज्य गृहद्वारं यावत्पश्चाद्विसर्जयेत् 4.171.
मखे चापि महाराज प्रसिद्धे वा प्रतिश्रये
प्राप्यते यत्फलं पुंभिः पार्थ तत्केन वर्ण्यते
दासीं समीक्ष्य बहुशो गृहकर्मदक्षां यो ब्रह्मणाय कुलशीलवते ददाति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दासीदानविधिवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः
प्रपादानविधिवर्णनम् कथं देया कदा देया दाने तस्याश्च किं फलम्
पुण्येऽह्नि विप्रकथिते ग्रहचंद्रबलान्विते
मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम्
देवतायतने वापि चैत्यवृक्षतलेऽपि वा
कारयेन्मंडपं भव्यं शीतवातसहं दृढम्
अकालमूलान्करकान्वस्त्रैरावेष्टितानथ
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः