ज्ञात्वा वनगतानस्मान्ब्राह्मणाः संजितेंद्रियाः
अस्मान्स्नेहात्क्लिश्यमाना दृष्ट्वा ब्राह्मणसत्तमाः
जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः
अभ्यागतं सुहृद्वर्गं कुटुंबमपहाय च
इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम्
समागता मत्प्रियार्थं ज्ञानविज्ञानपारगाः
भवद्भिः सहिताः सर्वे भृत्यैर्भ्रातृभिरेव च 4.170.१
मामुवाचाथ मैत्रेयः शृणु कौंतेय मद्वचः
आसीत्तपोवने काचिद्ब्राह्मणी ब्रह्मचारिणी
शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च
सा तानुवाच किं तन्मे व्रतं दानमथापि वा
आधारभूता भूतानां बह्वपत्या पतिप्रिया
वसिष्ठस्तामुवाचाथ शृणुष्व कथयामि ते
कृत्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः
सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत्
मुद्गतंदुलनिष्पन्नसुस्विन्नक्षिप्रपूरिताम्
धौतपार्श्वां धौतकर्णां चर्चितां चन्दनेन च 4,170.
आदित्येऽहनि संक्रांतौ चतुर्दश्यष्टमीषु वा
ज्वलज्ज्वलनपार्श्वस्थैस्तंडुलैः सजलैरपि
त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्टिमिच्छताम्
ज्ञातिबंधुसुहृद्वर्गे विप्रे प्रेष्यजने तथा
इत्युच्चार्य प्रदातव्या हंडिका द्विजपुंगवे
वसिष्ठवचनं श्रुत्वा सा चकार तथैव तु
सा चैषा द्रौपदी पार्थ भवद्भार्याऽभवत्प्रिया
एषा सती शची स्वाहा सावित्री भूररुंधती
अनया या भृता स्थाली तया सर्वमिदं जगत्
मैत्रेयात्तदुपश्रुत्य तत्र संहृष्टमानसः 4.170.
अन्नदानप्रसंगेन स्थालीदानमिदं मया
स्थालीं विशालवदनां च सतंडुलां च यच्छंति ये मधुरशुल्बमयीं द्विजेभ्यः
इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्थालीदानविधिवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः