क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम 4.169.
एवमुक्ता गृहं गत्वा यतीनां ब्रह्मचारिणाम्
समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः
वणिक्पुत्र चिरं जीव नश्यंतु तव शत्रवः
ततः स दुष्टप्रकृतिर्विप्र वाग्वज्रताडितः
विपन्नं पन्नगं दृष्ट्वा त्रस्तचक्षुर्धनेश्वरः
पोषितोऽयं मया बालः पालितो लालितस्तथा
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः
इत्येवमवधार्यासौ दुःखसंतप्तमानसः
ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः
तैर्भुक्तैरिष्टसंसिद्धैर्ब्राह्मणै रनुमोदितः 4.169.
ततो द्विजवरोन्मुक्तैरंबुभिः परिषिंचितः
प्रहर्षमतुलं लेभे दृष्ट्वा तं पुरतः स्थितम्
साधुवादो महाञ्जातः प्रशशंसुर्धनेश्वरम्
सहस्रभोज्यमाहात्म्यं कथितं ते युधिष्ठिर
यच्छंति येऽनुदिवसं द्विजपुंगवानामन्नं विशुद्धमनसो भृशमागतानाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अन्नदानमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः
स्थालीदानवर्णनम् युधिष्ठिर उवाच अन्नदानप्रसंगेन ममापि स्मृतिमागतम्
अक्षद्यूतेन भगवन्धनं राज्यं च नो हृतम्
वनं प्रस्थापिताः सर्वे वल्कलाजिनवाससः
ज्ञात्वा वनगतानस्मान्ब्राह्मणाः संजितेंद्रियाः
अस्मान्स्नेहात्क्लिश्यमाना दृष्ट्वा ब्राह्मणसत्तमाः
जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः
अभ्यागतं सुहृद्वर्गं कुटुंबमपहाय च
इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम्
समागता मत्प्रियार्थं ज्ञानविज्ञानपारगाः
भवद्भिः सहिताः सर्वे भृत्यैर्भ्रातृभिरेव च 4.170.१
मामुवाचाथ मैत्रेयः शृणु कौंतेय मद्वचः
आसीत्तपोवने काचिद्ब्राह्मणी ब्रह्मचारिणी
शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च