येनायुतं सहस्रं वा भोजितं स्याद्द्विजन्मनाम् 4.169.
वाराणस्यां पुरा पार्थ वणिगापणजीवनः
तस्यापणैकदेशे तु मुक्त्वांडं पांडुरच्छवि
तदंडं वणिजा तेन दृष्टं कारुण्यबुद्धिना
निर्जगाम दिनैः कैश्चिद्भित्वांडं सर्पपोतकः
लिलिहे घृतभांडानि जिघ्रे च गंधसंचयान्
वणिजा रक्ष्यमाणः स स्नेहाच्चाहरहः पुनः
अथैकस्मिन्दिने गंगां गतः स्नातुं त्रिलोकगाम्
व्यवहर्तुं समारब्धं वणिक्पुत्रेण धीमता
व्यवहाराकुलतया पादयोरंतरेण सः
जानन्नपि तद्वृत्तांतं निदाने नियतेर्वशात् ।। 4.169.
स महीतः समुत्थाय मूर्द्धानमवरुह्य च
शरणागतं पोषितं च तव पित्रा प्रियंकरम्
अनंतरं कलकलः संजातो रोदतां नृणाम्
अच्युतानंत गोविंद कृष्णकृष्णेत्युदीरयन्
किं कृतं मम पुत्रेण तव पव्रग विप्रियम्
मूर्ख मित्रं सुसंबंधं हीनजातिजनो हि यः
तमुवाच च सर्पोऽसौ वाष्पगद्गदया गिरा
तदहं पश्यतस्तेऽद्य दशाम्येनं नराधिप
सतां मार्गमपाक्रम्य प्रयातः केन वार्यते
क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम 4.169.
एवमुक्ता गृहं गत्वा यतीनां ब्रह्मचारिणाम्
समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः
वणिक्पुत्र चिरं जीव नश्यंतु तव शत्रवः
ततः स दुष्टप्रकृतिर्विप्र वाग्वज्रताडितः
विपन्नं पन्नगं दृष्ट्वा त्रस्तचक्षुर्धनेश्वरः
पोषितोऽयं मया बालः पालितो लालितस्तथा
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः
इत्येवमवधार्यासौ दुःखसंतप्तमानसः
ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः