यया मांसान्यहं स्वस्य भक्ष्ययाम्यशनं विना ब्रह्मोवाच श्वेताभिजनसंपन्न श्वेत शृणु वचो मम ।। 4.169.
त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः
अनन्नदानस्य फलं त्वयेदमुपभुज्यते
नान्यदन्नादृते पुंसां किञ्चित्सञ्जीवनौषधम्
तपः स्वाध्यायसंपन्ने शास्त्रज्ञे संजितेन्द्रिये
विरिंचेर्वचनाद्गत्वा त्वरायुक्तो महीतलम्
भोजयित्वा ततः प्रादाद्दक्षिणां क्षीणकल्मषः
ततो दुन्दुभिघोषेण पूजितः सुरसत्तमैः
पौलस्त्ये निहते पश्चाद्देवदानवसंकटे
एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते
अन्नं वै प्राणिनां प्राणा अन्नमोजो बलं सुखम् 4.169.
सुदूरादाशया यस्य गृहं प्राप्ता बुभुक्षिताः
दीक्षितः कपिला सत्री राजा भिक्षुर्महोदधिः
एकस्याप्यतिथेरन्नं यः प्रदातुमशक्तिमान्
शक्यते दुष्करेऽप्यर्थे चिररात्राय जीवितुम्
भुक्त्वा गृहे गृहस्थस्य मैथुनं यश्च सेवते
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति
वनस्पतिगते सोमे परान्नं यस्तु भुंजति
कस्मान्न दीयते नित्यं कस्मादन्नं न दीयते
भिक्षां वा पुष्कलां वापि हंतकारं द्विजातये
येनायुतं सहस्रं वा भोजितं स्याद्द्विजन्मनाम् 4.169.
वाराणस्यां पुरा पार्थ वणिगापणजीवनः
तस्यापणैकदेशे तु मुक्त्वांडं पांडुरच्छवि
तदंडं वणिजा तेन दृष्टं कारुण्यबुद्धिना
निर्जगाम दिनैः कैश्चिद्भित्वांडं सर्पपोतकः
लिलिहे घृतभांडानि जिघ्रे च गंधसंचयान्
वणिजा रक्ष्यमाणः स स्नेहाच्चाहरहः पुनः
अथैकस्मिन्दिने गंगां गतः स्नातुं त्रिलोकगाम्
व्यवहर्तुं समारब्धं वणिक्पुत्रेण धीमता
व्यवहाराकुलतया पादयोरंतरेण सः