इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः
अन्नदानमाहात्म्यवर्णनम् यत्प्रोक्तमृषिभिः पूर्वं तदिहैकमनाः शृणु
ददस्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर
रामेण दशरथिना वनस्थेन निजानुजः
पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः
यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः
यत्र प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा
भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम्
प्रकारांतरभोज्यानि दानान्यन्यानि भारत
बुद्धिश्चार्थात्परो लोभः सन्तोषः परमं सुखम्
न सुखं न च सन्तोषो भवेदन्नादृते नृणाम् 4.169.
तेनेष्टं बहुभिर्यज्ञैः संग्रामा बहवो जिताः
भुक्ता भोगाः सुविपुला शत्रूणां मूर्धनि स्थितम्
स्वर्गं जगाम भुक्त्वा तु पूज्यमानो मरुद्गणैः
तत्रास्ते रममाणोऽसौ साकं विद्याधरैः सुखम्
गंधर्वैर्गीयते हृष्टैः शक्रेणाप्यनुगम्यते
स च नित्यं वितानाग्र्यादवतीर्य महीतलम्
तच्छरीरं तथैवास्ते रक्षितं पूर्वकर्मभिः
प्रणम्य प्रांजलिर्भूत्वा निर्वेदादिदमब्रवीत्
सर्वेषामपि संपूज्यः सुराणां सुरपुंगव
यया मांसान्यहं स्वस्य भक्ष्ययाम्यशनं विना ब्रह्मोवाच श्वेताभिजनसंपन्न श्वेत शृणु वचो मम ।। 4.169.
त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः
अनन्नदानस्य फलं त्वयेदमुपभुज्यते
नान्यदन्नादृते पुंसां किञ्चित्सञ्जीवनौषधम्
तपः स्वाध्यायसंपन्ने शास्त्रज्ञे संजितेन्द्रिये
विरिंचेर्वचनाद्गत्वा त्वरायुक्तो महीतलम्
भोजयित्वा ततः प्रादाद्दक्षिणां क्षीणकल्मषः
ततो दुन्दुभिघोषेण पूजितः सुरसत्तमैः
पौलस्त्ये निहते पश्चाद्देवदानवसंकटे
एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते