पिठरोलूखलस्थालीशूर्पदर्पणपत्रकैः
गृहाटवाटकादर्वीदृषल्लोष्टकहस्तकैः
कंडणी पेषणी चुल्ली उदकुम्भी प्रमार्जनी
इत्येवमादिभिः पूर्णान्गृहान्दद्याद्द्विजातिषु
शुभेऽह्नि विप्रकथिते दानकालः प्रशस्यते 4.168.
कुलशीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत्
गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान्
सुगंधिस्रग्धरान्कृत्वा शांतिकर्मणि योजयेत्
ग्रहयज्ञः प्रकर्तव्यस्तुष्टिपुष्टिकरः सदा
वास्तुपूजा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत्
प्रवेशयित्वा शय्यासु सभार्यानुपवेशयेत्
यद्यस्य विहितं पूर्वं तत्तस्य प्रतिपादयेत्
तव विप्र प्रसादेन ममास्त्वभिमतं फलम्
गृहोपकरणैस्तुल्या दक्षिणा भवनं विना
उपदेष्टारमापृच्छेत्तन्मूलत्वान्महर्षयः 4.168.
दद्यादनेन विधिना गृहमेकं बहूनपि
शीतवातातपहरं दत्त्वा तृणकुटीरकम्
किं पुनर्बहुनोक्तेन सर्वोपस्करभूषिताम्
गोभूहिरण्यदानानि यमाः सनियमास्तथा
यः कारयेत्सुदृढहर्म्यवती महार्हा सत्सेवितां द्विजपुरीं सुजनोपभोग्याम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः
अन्नदानमाहात्म्यवर्णनम् यत्प्रोक्तमृषिभिः पूर्वं तदिहैकमनाः शृणु
ददस्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर
रामेण दशरथिना वनस्थेन निजानुजः
पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः
यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः
यत्र प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा
भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम्
प्रकारांतरभोज्यानि दानान्यन्यानि भारत
बुद्धिश्चार्थात्परो लोभः सन्तोषः परमं सुखम्