प्राप्तकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः
न लोक पंक्तिर्न यशः प्राप्यते त्रिदशैरपि
प्रसार्य पादौ यद्रात्रौ स्वगृहे स्वपतां सुखम्
अपि शाकं पचानस्य स्वगृहे परमं सुखम्
भवनं ब्राह्मणे देयं भव्यभूतिमभीप्सता 4.168.
शुभं कमठपृष्ठाभं भाभासितदिगंतरम्
दद्यादनंतफलदं शैववैष्णवयोगिनाम्
दीनानाथजलार्थाय कृतं किं न कृतं भवेत्
कुढ्यस्तंभगवाक्षाढयान्विचित्रान्बहुभूमिकान्
सुधाधवलितान्रम्यान्विस्तीर्णांगणवाटिकान्
लोहोपस्करसंपूर्णांस्ता म्रोपस्करसंयुतान्
रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान्
वंशोपस्करसंकीर्णान्काष्ठोपस्कर बृंहितान्
धर्मोपस्करसंभारशणवल्कलराजितान्
सप्तधातुमयं भांडं यत्तद्रत्नसमुद्भवम् 4.168.
गोमहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान्
संपूर्णान्सर्वधान्यैस्तु घृततैलगुडादिभिः
निष्पावाढक्यचणककुलत्थाणुमसूरकैः
लवणार्द्रकखर्जूरद्राक्षाजीरकधान्यकैः
धूपोपस्करपर्युप्ततूलीगण्डोपधानकैः
पिठरोलूखलस्थालीशूर्पदर्पणपत्रकैः
गृहाटवाटकादर्वीदृषल्लोष्टकहस्तकैः
कंडणी पेषणी चुल्ली उदकुम्भी प्रमार्जनी
इत्येवमादिभिः पूर्णान्गृहान्दद्याद्द्विजातिषु
शुभेऽह्नि विप्रकथिते दानकालः प्रशस्यते 4.168.
कुलशीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत्
गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान्
सुगंधिस्रग्धरान्कृत्वा शांतिकर्मणि योजयेत्
ग्रहयज्ञः प्रकर्तव्यस्तुष्टिपुष्टिकरः सदा
वास्तुपूजा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत्