इति दानमंत्रः स्वेच्छया चैव गृह्णातु न निवार्यास्तु काश्चन
अनेन विधिना यस्तु दानमेतत्प्रयच्छति
नारी च दत्त्वा सौभाग्यमतुलं प्रतिपद्यते
अवियोगं सदा भर्त्रा रूपं चानुत्तमं लभेत् भिद्यते बहुभिर्भेदैर्भूमिरेषा नरेश्वर
निष्पाद्य भांडनिचयोच्चतरं प्रयत्नादापाकदानमिह या कुरुते वरस्त्री
गृहदानविधिवर्णनम् गृहदानस्य माहात्म्यं विधिं वद विदांवर
नानृतादधिकं पापं न पूज्यो ब्राह्मणात्परः
धनधान्यसमायुक्तं कलत्रापत्यसंकुलम्
गोगजाश्वगणाकीर्णं गृहं स्वर्गाद्विशिष्यते
एवं गृहस्थमाश्रित्य वर्तयंतीतराश्रमाः
प्राप्तकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः
न लोक पंक्तिर्न यशः प्राप्यते त्रिदशैरपि
प्रसार्य पादौ यद्रात्रौ स्वगृहे स्वपतां सुखम्
अपि शाकं पचानस्य स्वगृहे परमं सुखम्
भवनं ब्राह्मणे देयं भव्यभूतिमभीप्सता 4.168.
शुभं कमठपृष्ठाभं भाभासितदिगंतरम्
दद्यादनंतफलदं शैववैष्णवयोगिनाम्
दीनानाथजलार्थाय कृतं किं न कृतं भवेत्
कुढ्यस्तंभगवाक्षाढयान्विचित्रान्बहुभूमिकान्
सुधाधवलितान्रम्यान्विस्तीर्णांगणवाटिकान्
लोहोपस्करसंपूर्णांस्ता म्रोपस्करसंयुतान्
रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान्
वंशोपस्करसंकीर्णान्काष्ठोपस्कर बृंहितान्
धर्मोपस्करसंभारशणवल्कलराजितान्
सप्तधातुमयं भांडं यत्तद्रत्नसमुद्भवम् 4.168.
गोमहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान्
संपूर्णान्सर्वधान्यैस्तु घृततैलगुडादिभिः
निष्पावाढक्यचणककुलत्थाणुमसूरकैः
लवणार्द्रकखर्जूरद्राक्षाजीरकधान्यकैः
धूपोपस्करपर्युप्ततूलीगण्डोपधानकैः