न तस्य राज्ये विध्वंसो न वैरिजनितं भयम्
तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभात्
न पुत्रः प्रियकृत्कश्चिन्न मंत्री मधुराक्षरः
न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम्
न धनं जनसंबन्धकारको रत्नसंचयः
अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः
तमागतं मुनिं दृष्ट्वा राजपत्नी शुभावती
ततः कथांते कस्मिंश्चित्तमुवाच शुभावती 4.167.
कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज
कर्मभूमिरियं राज्ञि नातः शोचितुमर्हसि
न तत्कुर्वंति राजानो न दायादा न शत्रवः
तस्माद्भवद्भियर्द्दत्तं प्राप्तं तद्राज्यमुत्तमम्
येन मे बहवः पुत्रा धनं भृत्या भवंति वै
मंत्रो वा सिद्धयोगो वा व्रतं दानमुपोषितम्
ततः स कथयामास पिप्पलादो द्विजोत्तमः
श्रद्धया कुरुशार्दूल नारी वाप्यथ वा पुमान्
तच्छ्रुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम्
दत्तेन येन कामानां पुमान्भवति भाजनम् ।। 4.167.
ग्रहताराबलं लब्ध्वा भार्गवं पूजयेच्छुभम्
कुर्यात्तथैव सम्मानं यथा तुष्टोऽभिजायते
मणिकादीनि शुभ्राणि स्थाल्यश्च सुमनोहराः
शरावादीनि पात्राणि भांडमुच्चावचं बहु
भार्गवोऽपि प्रयत्नेन नाना भांडान्वितं शुभम्
सहस्रमेकं भांडानां स्थापयित्वा विचक्षणः
रात्रौ जागरणं कुर्याद्गीतमङ्गलनिस्वनैः
रक्तवस्त्रैः समाच्छाद्य पुष्पमालाभिरर्चयेत्
पूजयित्वा प्रयत्नेन कृत्वा चारु प्रदक्षिणाम् 4.167.
नार्यश्चाविधवास्तत्र समानीय प्रपूज्य च
आपाकब्रह्मरूपोसि भांडानीमानि जंतवः
भांडरूपाणि यान्यत्र कल्पितानि मया किल