दृष्ट्वा तद्दीयमानं तु दानमेतद्युधिष्ठिर
दानमेतत्प्रदत्तं हि दिलीपेन ययातिना
तेऽद्यापि दिवि मोदंते दानस्यास्य प्रभावतः
दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा
एकमप्युक्तविधिना हलं देयं विचक्षणैः
ये संति लांगलमुखोत्थरजोविकारा यावंति तद्गतधुरंधर रोमकाणि
युक्तां वृषैरतिबलैर्हलपंक्तिमेतां पुण्येह्नि भक्तिसहितान्द्विजपुंगवेभ्यः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे हलपंक्तिदानविधिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः
आपाकदानविधिवर्णनम् बहुपुत्रो बहुधनो बहुभृत्यश्च जायते
(हव्यवाहनः) पितृपैतामहं तेन प्राप्तं राज्य मकंटकम्
न तस्य राज्ये विध्वंसो न वैरिजनितं भयम्
तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभात्
न पुत्रः प्रियकृत्कश्चिन्न मंत्री मधुराक्षरः
न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम्
न धनं जनसंबन्धकारको रत्नसंचयः
अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः
तमागतं मुनिं दृष्ट्वा राजपत्नी शुभावती
ततः कथांते कस्मिंश्चित्तमुवाच शुभावती 4.167.
कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज
कर्मभूमिरियं राज्ञि नातः शोचितुमर्हसि
न तत्कुर्वंति राजानो न दायादा न शत्रवः
तस्माद्भवद्भियर्द्दत्तं प्राप्तं तद्राज्यमुत्तमम्
येन मे बहवः पुत्रा धनं भृत्या भवंति वै
मंत्रो वा सिद्धयोगो वा व्रतं दानमुपोषितम्
ततः स कथयामास पिप्पलादो द्विजोत्तमः
श्रद्धया कुरुशार्दूल नारी वाप्यथ वा पुमान्
तच्छ्रुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम्
दत्तेन येन कामानां पुमान्भवति भाजनम् ।। 4.167.
ग्रहताराबलं लब्ध्वा भार्गवं पूजयेच्छुभम्
कुर्यात्तथैव सम्मानं यथा तुष्टोऽभिजायते