एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेद येत्
अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः
यदि कर्तुं न शक्नोति पुण्येह्नि बहुविस्तरम्
विमानेनार्कवर्णेन किंकिणीजाल मालिना 4.165.
क्षीणपुण्य इहाभ्येत्य राजा भवति धार्मिकः
शतकोट्यधिपः शूरश्चक्रवर्ती महाबलः
द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः
हलपंक्तिदानविधिवर्णनम् येन दत्तेन राजेन्द्र सर्वदानप्रदो भवेत्
सर्वपापप्रशमनं सर्वसौख्यप्रदायकम्
पंक्तिर्दशहला प्रोक्ता हलं स्यात्तु चतुर्गवम्
सौवर्णपट्टसंनद्ध रत्नवंति शुभानि च
वस्त्रकांचनपुष्पैश्च चंदनैर्दिग्धमस्तकान्
योक्त्राणि युगलग्नानि सवृषाणि च कारयेत्
एवंविध हलैः कुर्यात्तं युक्तां हलपंक्तिकाम्
निवर्तनशतं वापि तदर्द्धं वा प्रकल्पयेत्
कार्तिक्यां चाथ वैशाख्यामुत्तरे वाऽयने तथा
ब्राह्मणान्वेदसंपन्नान्व्यंगहीनानलंकृतान् 4.166.
दशहस्तप्रमाणेन मंडपं कारयेद्बुधः
तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः
पालाश्यः समिधस्तत्र साज्यं कृष्णास्तिलास्तथा
ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः
तूर्यशंखनिनादैश्च ब्रह्मघोषैः सुपुष्कलैः
यस्माद्देवगणाः सर्वे हले तिष्ठंति सर्वदा
यस्माच्च भूमिदानस्य कलां नार्हंति षोडशीम्
एवमुक्ते ततः पंक्तिं प्रेरयेयुर्द्विजोत्तमाः
स्वयं पश्चाद्धले लग्नो विप्रहस्तेषु निर्वपेत्
प्रदक्षिणं ततः कृत्वा विप्राणां प्रतिपाद्य च 4.166.
अनेन विधिना यस्तु दानमेतत्प्रयच्छति
सप्तजन्मसु दारिद्र्यं दौर्भाग्यं व्याधयस्तथा