तथाष्टौ पूर्णकलशान्समंतात्स्थापयेच्छुभान्
अंशुकानि विचित्राणि श्रीखंडशकलानि च
ततो होमावसानेषु निष्पन्ने सर्वशांतिके
कृत्वा प्रदक्षिणं पृथ्वीं गृहीत्वा कुसुमांजलिम् 4.165.
नमस्ते सर्वदेवानां त्वमेव भवनं यतः
वसु धारयसे यस्मात्सर्वसौख्यप्रदायकम्
चतुर्मुखोऽपि नो गच्छेद्यस्मादंतं तवाचले
त्वमेव लक्ष्मीर्गोविदे शिवे गौरीति संस्थिता
बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता
धृतिः क्षितिः क्षमा क्षोणी पृथिवी वसुधा मही
एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेद येत्
अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः
यदि कर्तुं न शक्नोति पुण्येह्नि बहुविस्तरम्
विमानेनार्कवर्णेन किंकिणीजाल मालिना 4.165.
क्षीणपुण्य इहाभ्येत्य राजा भवति धार्मिकः
शतकोट्यधिपः शूरश्चक्रवर्ती महाबलः
द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः
हलपंक्तिदानविधिवर्णनम् येन दत्तेन राजेन्द्र सर्वदानप्रदो भवेत्
सर्वपापप्रशमनं सर्वसौख्यप्रदायकम्
पंक्तिर्दशहला प्रोक्ता हलं स्यात्तु चतुर्गवम्
सौवर्णपट्टसंनद्ध रत्नवंति शुभानि च
वस्त्रकांचनपुष्पैश्च चंदनैर्दिग्धमस्तकान्
योक्त्राणि युगलग्नानि सवृषाणि च कारयेत्
एवंविध हलैः कुर्यात्तं युक्तां हलपंक्तिकाम्
निवर्तनशतं वापि तदर्द्धं वा प्रकल्पयेत्
कार्तिक्यां चाथ वैशाख्यामुत्तरे वाऽयने तथा
ब्राह्मणान्वेदसंपन्नान्व्यंगहीनानलंकृतान् 4.166.
दशहस्तप्रमाणेन मंडपं कारयेद्बुधः
तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः