यथा गौर्भरते वत्स क्षीरेण क्षीरमुत्सृजेत् 4.164.
यथा बीजानि रोहंति जलसिक्तानि भूतले
यथोदयन्सहस्रांशुस्तमः सर्वं व्यपोहति
पर दत्तां तु यो भूमिमुपहिंसेत्कदाचन
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम्
रुदतां वृत्तिनाशेन ये पतंत्यश्रुबिंदवः
ब्राह्मणानां हृते क्षेत्रे हर्तुस्त्रिपुरुषं कुलम् अधोमुखश्च दुष्टात्मा कुंभीपाके स पच्यते
दिव्यवर्षसहस्रांते कुंभीपाकाद्विनिःसृतः
स्वदत्तां परदत्तां वा यत्नाद्रक्षेद्युधिष्ठिर
तोयहीनेष्वरण्येषु शुष्ककोटरवासिनः
एवं दत्त्वा महीं राजन्प्रहृष्टेनांतरात्मना 4.164.
भूमिदानात्परं नास्ति सुखं वामुष्मिकं महत्
यच्छंति ये द्विजवराय महीं सुकृष्टां ते यांति शक्रसदनं सुविशुद्धदेहाः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूमिदानमाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरशततमोऽध्यायः
पृथिवीदानविधिवर्णनम् ते ह्युपार्जयितुं शक्ता दातुं पालयितुं यथा
भूमिदानसमं किंचिदन्यत्कथय यादव
महीं प्रयच्छ विप्राणां तत्तुल्या सा निगद्यते
शृणुष्वैकमना भूत्वा महादानं नरोत्तम
चंद्रसूर्योपरागे च जन्मर्क्षे विषुवे तथा
अन्येष्वपि च कालेषु प्रशस्ते धनसंचये
हेम्नः पलशतेनोक्ता तदर्धेनापि शक्तितः
कारयेत्पृथिवीं हैमीं जंबुद्वीपानुकारिणीम्
लोकपालाष्टकोपेतां ब्रह्मविश्वेशसंयुताम्
सर्वसस्यविचित्रांगीं सर्वगंधाधिवासिताम् 4.165.
दशद्वादशहस्तं च चतुर्वक्त्र सतोरणम्
ऐशान्यां सुरसंस्थानमाग्नेय्यां कुंडमेव च
लोकपाला ग्रहाश्चैव पूज्या माल्यविलेपनैः
सालंकारा सवस्त्राश्च माल्यचंदनभूषिताः
आनयेयुर्द्विजा राजन्ब्रह्मघोषपुरःसरम्
तिलैः प्रच्छादितां वेदिं कृत्वा तत्राधिवासयेत्