सरितः सागराञ्छैलान्समानि विषमाणि च । कामं क्रोधं तथा वाचं रतिं चापि कुरुद्वह
सृष्टिं ससर्ज राजेन्द्र सिसृक्षुर्विविधाः प्रजाः । धर्माधर्मौ विवेकाय कर्मणां च तथासृजत्
सुखदुःखादिभिर्द्वन्द्वैः प्रजाश्चेमा न्ययोजयत् । अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः
ताभिः सर्वमिदं वीर सम्भवत्यनुपूर्वशः । यत्कृतं तु पुरा कर्म सन्नियुक्तेन वै नृप
स तदेव स्वयं भेजे सृज्यमानं पुनः पुनः । हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते
यद्यथास्याभवत्सर्गे तत्तस्य स्वयमाविशत् । यथा च लिङ्गान्यृतवः स्वयमेवानुपर्यये
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः । लोकस्येह विवृद्ध्यर्थं मुखबाहूरुपादतः
ब्रह्म क्षत्रं तथा चोभौ वैश्यशूद्रौ नृपोत्तम । मुखानि यानि चत्वारि तेभ्यो वेदा विनिःसृताः
ऋग्वेदसहिता तात वसिष्ठेन महात्मना । पूर्वान्मुखान्महाबाहो दक्षिणाच्चापि वै शृणु
यजुर्वेदो महाराज याज्ञवल्क्येन वै सह । सामानि पश्चिमात्तात गौतमश्च महानृषिः
अथर्ववेदो राजेन्द्र मुखाच्चाप्युत्तरान्नृप । ऋषिश्चापि तथा राजञ्छौनको लोकपूजितः
यत्तन्मुखं महाबाहो पञ्चमं लोकविश्रुतम् । अष्टादशपुराणानि सेतिहासानि भारत
निर्गतानि ततस्तस्मान्मुखात्कुरुकुलोद्वह । तथान्याः स्मृतयश्चापि यमाद्या लोकपूजिताः
ततः स भगवान्देवो द्विधा देहमकारयत् । द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत्
अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः । तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट्
स चकार तपो राजन्सिसृक्षुर्विविधाः प्रजाः । पतीन्प्रजानामसृजन्महर्षीनादितो दश
नारदं च भृगुं तात कं प्रचेतसमेव हि । पुलहं क्रतुं पुलस्त्यं च अत्रिमङ्गिरसं तथा
मरीचिं चापि राजेन्द्र योऽसावाद्यः प्रजापतिः । एतांश्चान्यांश्च राजेन्द्र असृजद् भूरितेजसः
अथ देवानृषीन्दैत्यान्सोऽसृजत्कुरुनन्दन । यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान्
मनुष्याणां पितॄणां च सर्पाणां चैव भारत । नागानां च महाबाहो ससर्ज विविधान्गणान्
क्षणरुचोऽशनिगणान्रोहितेन्द्रधनूंषि च । धूमकेतूंस्तथा चोल्का निर्याताञ्ज्योतिषां गणान्
मनुष्यान्किन्नरान्मत्स्यान्वराहांश्च विहङ्गमान् । गजानश्वानथ पशून्मृगान्व्यालांश्च भारत
कृमिकीटपतङ्गांश्च यूकालिक्षकमत्कुणान् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम्
एवं स भास्करो देवः ससर्ज भुवनत्रयम् । येषां तु यादृशं कर्म भूतानामिह कीर्तितम्
कथयिष्यामि तत्सर्वं क्रमयोगं च जन्मनि । गजा व्याला मृगास्तात पशवश्च पृथग्विधाः
पिशाचा मानुषास्तात रक्षांसि च जरायुजाः । द्विजास्तु अण्डजाः सर्पा नक्रा मत्स्याः सकच्छपाः
एवंविधानि यानीह स्थलजान्यौदकानि च । स्वेदजं दंशमशकं यूकालिक्षकमत्कुणाः
ऊष्मणा चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् । उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः
ओषध्यः फलपाकान्ता नानाविधफलोपगाः । अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । गुच्छगुल्मं तु विविधं तथैव तृणजातयः