मेषी विशेषकलुषापहरातिशस्ता दाने सदैव रसधातुयुता सधान्या
भूमिदानवर्णनम् ये प्रयच्छंति विप्रेभ्यो भूमिदानं सदक्षिणम्
श्रोत्रियाय दरिद्राय अग्निहोत्ररताय च
सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा
विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकं स गच्छति
तत्र दिव्यांगनाभिश्च सेव्यमानो यथासुखम्
यावद्धारयते लोकान्भूरंकुरसमुद्भवा
नहि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते
दानान्यन्यानि क्षीयंते कालेन पुरुषर्षभ
सर्वपापानि क्षीयंते कालयोगक्रमेण तु
ब्राह्मणाय सुशीलाय भूमिं दत्त्वा तु यो नरः 4.164.
हलकृष्टां महीं कृत्वा सबीजां सस्यमालिनीम्
धनं धान्यं हिरण्यं च रत्नान्याभरणानि च
सागरान्सरितः शैलान्समानि विषमाणि च
ओषधीः क्षीरसंपन्ना नानापुष्पफलोपगाः
अग्निष्टोमादिभिर्यज्ञैर्ये यजंति सदक्षिणैः
श्रोत्रियाय महीं दत्त्वा ये हरंति न मानवाः
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः
सुवर्णानां सहस्रेण यत्पुण्यं समुदाहृतम्
कपिलानां सहस्रेभ्यो यद्दत्तेऽन्नं नरोत्तम 4.164.
मध्यमस्य मनुष्यस्य व्यासेन परिसंख्यया
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः
किंकरा मृत्युदंडाश्च असिपत्रवनादयः
निरया रौरवाद्याश्च कुंभीपाकः सुदुःसहः
चित्रगुप्तश्च कालश्च कृतांतो मृत्युरेव च
रुद्रः प्रजापतिः शक्रो देवासुरगणास्तथा
षट्कर्मकृत्सुवृत्ताय कृशाय च प्रियार्थिने
सीदमानकुटुंबाय श्रोत्रियायाहिताग्नये
यथा जनित्री क्षीरेण पुत्रं संवर्द्धयेत्सदा