तल्लिङ्गमंत्रैर्होमश्च कर्तव्यो ज्वलितेऽनले
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् जगतः संप्रवृद्धासि त्वामतः प्रार्थये स्थिताम्
वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम्
एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने
दुष्टप्रतिग्रहहतो विप्रो भवति पातकी
नो दद्याद्दक्षिणाहीनां दातव्या सा विधानतः
पुरा दत्तमिदं दानं गौर्या शंकरकाम्यया
नलेन दत्तमेतद्धि राज्यं कृत्वा दिवं गतः
दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः 4.163.
दत्त्वा दानं शुभां कांतिं विपुलां च तथा श्रियम् अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः
मेषी विशेषकलुषापहरातिशस्ता दाने सदैव रसधातुयुता सधान्या
भूमिदानवर्णनम् ये प्रयच्छंति विप्रेभ्यो भूमिदानं सदक्षिणम्
श्रोत्रियाय दरिद्राय अग्निहोत्ररताय च
सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा
विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकं स गच्छति
तत्र दिव्यांगनाभिश्च सेव्यमानो यथासुखम्
यावद्धारयते लोकान्भूरंकुरसमुद्भवा
नहि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते
दानान्यन्यानि क्षीयंते कालेन पुरुषर्षभ
सर्वपापानि क्षीयंते कालयोगक्रमेण तु
ब्राह्मणाय सुशीलाय भूमिं दत्त्वा तु यो नरः 4.164.
हलकृष्टां महीं कृत्वा सबीजां सस्यमालिनीम्
धनं धान्यं हिरण्यं च रत्नान्याभरणानि च
सागरान्सरितः शैलान्समानि विषमाणि च
ओषधीः क्षीरसंपन्ना नानापुष्पफलोपगाः
अग्निष्टोमादिभिर्यज्ञैर्ये यजंति सदक्षिणैः
श्रोत्रियाय महीं दत्त्वा ये हरंति न मानवाः
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः
सुवर्णानां सहस्रेण यत्पुण्यं समुदाहृतम्