यदा वा जायते चित्तं वित्तं च कुरुनन्दन
सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा
सुवर्णशृङ्गतिलका घंटाभरणभूषिता
पिण्याकपिटिकोपेता सहिरण्या च शक्तितः
पुराणपाठके तद्वज्ज्योतिःशास्त्रविदे तथा
द्रव्यैरेभिः समायुक्तां पुण्येऽह्नि विधिपूर्वकम्
इन्द्रादिलोकपालानां या राजमहिषी शुभा
धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः 4.162.
(इति दानमंत्रः) दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम्
एवं दत्त्वा विधानेन ब्राह्मणस्य गृहं नयेत्
संपादिता मया तुभ्यं संतुष्टो मे भव द्विज
अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे
या सा ददाति महिषीं सा राजमहिषी भवेत्
यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत्
तस्मान्नरेण दातव्या महिषी विभवे सति
दशधेनुसमां राजन्महिषीं नारदोऽब्रवीत्
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना
महिषी दानमाहात्म्यं यः शृणोति सदा नरः 4.162.
दुग्धाधिकां हि महिषीं जलमेघवर्णां सपुष्टपट्टकवतीं जघनाभिरामाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः
अविदानव्रतविधिवर्णनम् यद्दत्त्वा त्रिविधं पापं सद्यो विलयमृच्छति
सुवर्णरोमां सौवर्णीं प्रत्यक्षं वा सुशोभनाम्
कौशेयपरिधानां च दिव्यचंदनभूषिताम् सप्तधान्यसमायुक्तां फलपुष्पवतीं तथा
शतेन कारयेत्तां च सुवर्णस्य प्रयत्नतः
अयने विषुवे चैव ग्रहणे शशिसूर्ययोः
यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम्
दद्यात्तीर्थे गृहे वापि यत्र वा रमते मनः
तत्र संस्थाप्य देवेशमुमया सह शंकरम्
रत्या सह तथानंगं लोकपालान्ग्रहानपि
तदग्रे कारयेद्धोमं तिलाज्येन महीपते 4.163.