प्रतप्तजांबूनदतुल्यवर्णां महानितंबां तनुवृत्तमध्याम्
प्रातरुत्थाय यो भक्त्या धेनुकल्पं नरो भुवि
त्रिकालं पठते यस्तु पापं वर्षशतोद्भवम्
श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम्
अमावास्यां च यो विद्वान्द्विजानामग्रतः पठेत्
यश्चैतत्छृणुयात्पुण्यं तद्गतेनांतरात्मना
इदं रहस्यं राजेन्द्र वराहमुखनिर्गतम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कपिलादानमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः
महिषीदानव्रतविधिवर्णनम् पुण्यं पापविनाशं च आयुष्यं सर्वकामदम्
चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्यामयने तथा
यदा वा जायते चित्तं वित्तं च कुरुनन्दन
सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा
सुवर्णशृङ्गतिलका घंटाभरणभूषिता
पिण्याकपिटिकोपेता सहिरण्या च शक्तितः
पुराणपाठके तद्वज्ज्योतिःशास्त्रविदे तथा
द्रव्यैरेभिः समायुक्तां पुण्येऽह्नि विधिपूर्वकम्
इन्द्रादिलोकपालानां या राजमहिषी शुभा
धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः 4.162.
(इति दानमंत्रः) दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम्
एवं दत्त्वा विधानेन ब्राह्मणस्य गृहं नयेत्
संपादिता मया तुभ्यं संतुष्टो मे भव द्विज
अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे
या सा ददाति महिषीं सा राजमहिषी भवेत्
यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत्
तस्मान्नरेण दातव्या महिषी विभवे सति
दशधेनुसमां राजन्महिषीं नारदोऽब्रवीत्
सगरेण ककुत्स्थेन धुंधुमारेण गाधिना
महिषी दानमाहात्म्यं यः शृणोति सदा नरः 4.162.
दुग्धाधिकां हि महिषीं जलमेघवर्णां सपुष्टपट्टकवतीं जघनाभिरामाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः