ततो विमुक्ताः कालेन जायंते श्वानयोनिषु
विष्ठास्वेव च पापिष्ठा दुर्गंधेषु च नित्यशः
ब्राह्मणश्चैव यो देवि कुर्यात्तेषां प्रतिग्रहम्
तं विप्रं नानुभाषेत न चाप्येकासने विशेत्
यस्तेन सह भाषेत प्रायश्चित्ती भवे द्द्विजः
किमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः
श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये
मासे प्रसविनीं धेनुं दानार्थी प्रतिपालयेत्
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ।। 4.161.
तावत्सा पृथिवी ज्ञेया यावद्गर्भं न मुंचति
धेनोर्यावंति रोमाणि सवत्साया वसुन्धरे
तावद्वर्षसहस्राणि ब्रह्मेशादिभिरर्चितः
सुवर्णशृङ्गीं यः कृत्वा खुरै रौप्यैः समर्चिताम्
कपिलायास्तदा पुत्रं ब्राह्मणस्य करे न्यसेत्
सुवर्णैस्तु चतुर्भिश्च त्रिभिर्द्वाभ्यामथापि वा
स समुद्रवनोपेता सशैलवनकानना
पृथिवीदानतुल्येन दानेनैतेन वै नरः
ब्रह्मस्वहरणो गोघ्नो भ्रूणहा ब्रह्मघातकः तद्दिनं च पयोभोजी संयतश्चातिवाहयेत्
गोमयेनोपलिप्याथ मण्डलं विधिपूर्वकम् 4.161.
व्याहृत्या होमयेत्पूर्वं पंचवारुणकं तथा
स्योना पृथिवि मंत्रेण गौर्वत्ससहिता नवा
या ते सरस्वती देवी विष्णुना च तथा मही
यावद्वत्सस्यद्वौ पादौ शिरश्चैव प्रदृश्यते तस्मिन्काले प्रदातव्या ब्राह्मणाय वसुंधरे
सुवर्णशृंगीं रौप्यखुरां कास्यदोहां सताम्रकाम् वस्त्राक्षतैः समभ्यर्च्य ब्राह्मणाय समर्पयेत्
सुवर्णस्य सहस्रेण तदर्धेनापि भामिनि
यथा शक्त्या प्रदातव्या वित्तशाठ्यविवर्जितैः गृहाणेमां महाधेनुं भव भ्राता ममाशु वै
इरावती धेनुमती जाह्नवी तदनन्तरम्
भवतात्स्वस्ति मे नित्यं सुखं चानुत्तमं तथा 4.161.
कोऽदादिति च वै मंत्रो जपितव्यो द्विजेन च
एवं प्रसूयमानां गां यो ददाति वसुन्धरे रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः