पुनः क्षत्रत्वमगमन्मागधे स महीपतिः
जातिस्मरो बभूवासौ वेदधर्मपरायणः
तस्मै नृपाय स मुनिर्दत्त्वा मध्यचरित्रकम्
नृपोऽपि प्रत्यहं देवीं महालक्ष्मीं सनातनीम्
पुण्यक्षेत्रत्वमगमन्महामायाप्रसादतः
द्वादशाब्दांतरे प्राप्तस्तद्गुरुः शक्तितत्परः 3.2.34.
तदा प्रादुरभूद्देवी जगदंबा सनातनी
महानन्दी महाभागो भुक्त्वा भोगं सुरेप्सितम्
इति ते कथिता विप्र यत्प्रोक्तं यजुषो गतिः
इत्येवं वर्णितं विप्र माहात्म्यं मुनिवर्णितम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतु र्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुस्त्रिंशोऽध्यायः
तत्रावसन्महाप्राज्ञ उपाध्यायः पतञ्जलिः
वेदवेदांगतत्त्वज्ञो गीताशास्त्रपरायणः
कदाचित्स तु शुद्धात्मा गतस्तीर्थांतरं प्रति
वर्षान्ते च तदा विप्रो देवीभक्तेन निर्जितः
शिवायै सर्वमांगल्यै विष्णुमाये च ते नमः
त्वमेव श्रद्धा बुद्धिस्त्वं मेधा विद्या शिवंकरी
इत्युक्ते सति विप्रे तु वागुवाचाशरीरिणी
तच्चरित्रप्रभावेण सत्यं ज्ञानमवाप्स्यसि मद्भक्त्या तेन संप्राप्तं पराजय पतञ्जले
इति श्रुत्वा वचो देव्या विन्ध्यवासिनि मन्दिरम्
ज्ञानं प्रसादजं विप्रः प्राप्य विष्णुपरायणम् 3.2.35.
ऊर्द्ध्वपुंड्रं च तिलकं तुलसीकण्ठमालिकाम्
जनेजने तथा कृत्वा महाभाष्य मुदैरयत्
इति ते कथितो विप्र जाप्यानामुत्तमो जपः
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःखभाग्भवेत्
मंगलं भगवान्विष्णुर्मंगलं गरुडध्वजः
शुचिर्यो हि नरो नित्यमितिहाससमुच्चयम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये उत्तमचरितमाहात्म्ये पंचत्रिंशोऽध्यायः
शतद्वादशमर्यादो द्वापरस्य समो भुवि
अस्मिन्काले महाभाग लीला भगवता कृता