पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः
यजंते येऽग्निहोत्राणि अन्नैश्च विविधैः सदा
तेषां त्वादित्यवर्णैश्च विमानैर्जायते गतिः
कपिलायाः शिरो ग्रीवां सर्व तीर्थानि भामिनि
प्रातरुत्थाय यो मर्त्यः कपिला गलमस्तकात्
स तेन पुण्येनोपेतस्तत्क्षणाद्गतकिल्विषः
कल्य उत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम्
प्रदक्षिणायां चैकायां कृतायां च वसुन्धरे 4.161.
कपिलायास्तु मूत्रेण स्नायाद्वै यः शुचिव्रतः
येन स्नानेन चैकेन भवमुक्तो भवेन्नरः
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः
यश्चैकां कपिलां हन्यान्नरो रज्जुकरो यदि
गवां स्थितिं कल्पयेत घृतं गव्यं न दूषयेत्
तुल्यं गोघृतदानस्य भयरोगादिपालनम्
तृणादिभक्षणार्थं च गवां दद्याद्धरादिकम्
दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा
विमानैर्विविधैर्दिव्यैर्दिव्यकन्याभिरर्चितः
सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला 4.161.
पंचमी जुहुवर्णा स्यात्षष्ठी तु घृतपिङ्गला
नवमी पाटला ज्ञेया दशमी पुष्पपिङ्गला
सर्वा ह्येता महाभागास्तारयंति न संशयः
एवमेतास्तु कपिलाः पापघ्न्यश्च वसुन्धरे
अग्निज्वालोज्ज्वलैः शृंगैः प्रदीप्तांगारलोचना
तामाग्नेय्यां सदा दद्याद्ब्राह्मणायेतरैः सदा
पतितश्च भवेन्नित्यं चंडालसदृशः पुमान्
द्वारांते परिहर्तव्या कपिला गौर्द्विजेतरैः
असंभाष्याश्च पतिताः शूद्रास्ते पापकर्मिणः अमेध्यं भुञ्जतेऽतस्तां नोपजीवेद्द्विजेतरः
तासां घृतं च क्षीरं वा नवनीतमथापि वा 4.161.
कपिलाजीविनः शूद्राः सर्वे गच्छंति रौरवम्