कथितं कपिलादानं तच्छृणुष्व महामते
विधानं यद्वराहेण धरण्यै कथितं पुरा
तदहं संप्रवक्ष्यामि नवपुण्यफलं च यत् धरण्युवाच यत्त्वया कपिला नाम पूर्वमुत्पाविता प्रभो
होमधेनुः सदा पुण्या धेनुर्यज्ञावतारभूः
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा
तासां प्रयत्नाद्दानेन किं पुण्यं स्याच्च माधव
कृत्वा यत्सर्वपापेभ्यो मुच्यते नात्र संशयः
कपिला अग्निहोत्रार्थं यज्ञार्थे च वरानने
पवित्राणां पवित्रं च मङ्गलानां च मंगलम् 4.161.
तपसस्तप एवाग्र्यं व्रतानामुत्तमं व्रतं
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः
यजंते येऽग्निहोत्राणि अन्नैश्च विविधैः सदा
तेषां त्वादित्यवर्णैश्च विमानैर्जायते गतिः
कपिलायाः शिरो ग्रीवां सर्व तीर्थानि भामिनि
प्रातरुत्थाय यो मर्त्यः कपिला गलमस्तकात्
स तेन पुण्येनोपेतस्तत्क्षणाद्गतकिल्विषः
कल्य उत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम्
प्रदक्षिणायां चैकायां कृतायां च वसुन्धरे 4.161.
कपिलायास्तु मूत्रेण स्नायाद्वै यः शुचिव्रतः
येन स्नानेन चैकेन भवमुक्तो भवेन्नरः
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः
यश्चैकां कपिलां हन्यान्नरो रज्जुकरो यदि
गवां स्थितिं कल्पयेत घृतं गव्यं न दूषयेत्
तुल्यं गोघृतदानस्य भयरोगादिपालनम्
तृणादिभक्षणार्थं च गवां दद्याद्धरादिकम्
दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा
विमानैर्विविधैर्दिव्यैर्दिव्यकन्याभिरर्चितः
सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला 4.161.
पंचमी जुहुवर्णा स्यात्षष्ठी तु घृतपिङ्गला