यस्मात्त्वं वृषरूपेण धर्मश्चैव सनातनः
इत्यामन्त्र्य ततो दयाद्गुरवे नंदिकेश्वरम्
गवां शतमथैकैकं तदर्धं चापि विंशतिः
नैका बहुभ्यो दातव्या दाता दोषकरो भवेत्
पयोव्रतस्ततस्तिष्ठेदेकाहं गोसहस्रदः
न देया दुर्बला धेनुर्नाल्पक्षीरा न रोगिणी
अनेन विधिना यस्तु गोसहस्रप्रदो भवेत् ।। 4.159.
विमानेनार्कवर्णेन किंकिणीजालमालिना
सप्तावरान्सप्त परान्सप्त चैव परावरान्
स्वर्गलोकाच्च्युतो वाथ नारी वा सत्परायणा
न त्वेवेदं दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विघिश्च
एकापि गौर्बहुगुणा गुणिने प्रदत्ता दातुः कुलं त्रिपुरुषं विधिवत्पुनाति
वृषभदानव्रतवर्णनम् thumb|500px|ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति। न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः
तद्गोवृषभदानस्य फलं मे कथायाच्युत श्रीकृष्ण उवाच वृषदानफलं पुण्यं शृणुष्व कथयामि ते
पवित्रं पावनं चैव सर्वदानोत्तमोत्तमम् दशधेनुप्रदानाद्धि स एवैको विशिष्यते
यो हृष्टश्चातिपुष्टांगो ह्यरोगः पांडुनन्दन
धुरंधरः स्थापयते एक एव कुलं महत्
अलंकृत्य वृषं शांतं पुण्यकाल उपस्थिते
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते
धर्मस्त्वं वृषरूपेण जगदानन्दकारकः
दत्त्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् तत्सर्वं विलयं याति गोदानसुकृतेन च ।। 4.160.
यानं वृषभसंयुक्तं दीप्यमानं सुशोभनम्
यावंति तस्य रोमाणि गोवृषस्य महीपते
गोलोकादवतीर्णस्तु इह लोके द्विजो भवेत्
यथोक्तं ते महाराज कस्य देयो वृषोत्तमः
ये क्षांतदांताः श्रुतिपूर्णकर्णा जितेंद्रियाः प्राणिवधान्निवृत्ताः
ऊर्जस्विनं भरसहं दृढकंधरं च यच्छंति ये वृषमशेषगुणोपपन्नम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषभदानव्रतवर्णनं नाम षष्टयुत्तरशततमोऽध्यायः
कपिलादानमाहात्म्यवर्णनम् पुण्यं यत्सर्वदानानां सर्वपातकनाशनम्