मूलं यज्ञस्य काम्यस्य सर्वदेवमयाः शुभाः
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्
यासां पुत्रैर्धृता लोका धारिताः सर्वदेवताः
एकाऽपि गौर्गुणोपेता कृत्स्नं तारयते कुलम्
सुवत्सा सुदुहा चैव पापरोगविवर्जिता
किं पुनर्दश यो दद्याच्छतं वा विधिपूर्वकम्
गोसहस्रं पुरा दत्तं नहुषेण महीभृता 4.159.
गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया
श्रूयते पितृभिर्गीता गाथास्ताः शृणु भूपते
यदि कश्चित्कुलेऽस्माकं गोसहस्रं प्रदापयेत्
दुहिता वा कुले काचिद्गोसहस्रप्रदायिनी
अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिकम्
तीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम्
तन्मध्ये कारयेद्वेदिं चतुर्हस्तामनूपमाम्
पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत्
ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्रथममेव हि
चत्वारो वा महाराज उपाध्यायश्च पंचमः 4.159.
शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः
वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत्
कार्यं कुरुकुलश्रेष्ठ ततो होमं समारभेत्
गोसहस्राद्विनिष्कृष्य सवत्सं दशकं गवाम् अतः प्रवेश्य दशकं वस्त्रैर्माल्यैश्च पूजयेत्
सुवर्णघंटिकायुक्तं ताम्रदोहनकान्वितम् हेमरत्नमयैः शृंगैश्चामरैश्चोपशोभितम्
मुनयः केचिदिच्छन्ति कांचनं नंदिकेश्वरम्
एका प्रत्यक्षऋषभे केषांचिद्दानमिष्यते
पताकाभिरलंकृत्य देवतायतनानि च
यदि सर्वा न विद्यन्ते गावः सर्वगुणोत्तमाः
पुष्पकालमथो वाद्यगीतमंगलनिस्वनैः इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ।। 4.159.
नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च
गवामंगेषु तिष्ठन्ति भुवनान्येकविंशतिः
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः