स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् प्रसूयमानां गां दत्त्वा महत्पुण्यफलं लभेत्
यावंति धेनुरोमाणि वत्सस्यापि नराधिप
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् 4.158.
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः
यो ददाति सुवर्णेन बहुना सह भाविनीम्
न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा
स्त्रियश्च त चंद्रसमानवक्त्राः प्रतप्तजांबूनदतुल्यवर्णाः
गोसहस्रप्रदानविधिवर्णनम् कस्मिन्काले प्रदातव्यं कथं देयं च तद्भवेत्
ब्रह्मणा सृजता लोकान्वृत्तिहेतोः प्रजेश्वर
यासां मूत्रपुरीषेण देवतायतनान्यपि
मूलं यज्ञस्य काम्यस्य सर्वदेवमयाः शुभाः
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्
यासां पुत्रैर्धृता लोका धारिताः सर्वदेवताः
एकाऽपि गौर्गुणोपेता कृत्स्नं तारयते कुलम्
सुवत्सा सुदुहा चैव पापरोगविवर्जिता
किं पुनर्दश यो दद्याच्छतं वा विधिपूर्वकम्
गोसहस्रं पुरा दत्तं नहुषेण महीभृता 4.159.
गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया
श्रूयते पितृभिर्गीता गाथास्ताः शृणु भूपते
यदि कश्चित्कुलेऽस्माकं गोसहस्रं प्रदापयेत्
दुहिता वा कुले काचिद्गोसहस्रप्रदायिनी
अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिकम्
तीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम्
तन्मध्ये कारयेद्वेदिं चतुर्हस्तामनूपमाम्
पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत्
ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्रथममेव हि
चत्वारो वा महाराज उपाध्यायश्च पंचमः 4.159.
शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः
वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत्
कार्यं कुरुकुलश्रेष्ठ ततो होमं समारभेत्