सर्वकामसमृद्धश्च शत्रुपक्षक्षयंकरः
इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नधेनुदानव्रतविधिवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः
उभयमुखीगोदानव्रतवर्णनम् विधिना केन धर्मज्ञं दाने तस्याश्च किं फलम्
प्राप्नुवंति नराः केचित्पुण्यसंभारविस्तराः
यावत्पादौ योनिगतौ शिरश्चैव प्रदृश्यते
गौर्यावद्द्विमुखी चैव यदा भवति भारत
दत्त्वोभयमुखीं राजन्यत्पुण्यं प्राप्यते नृभिः
किमिष्टैर्बहुभिर्यज्ञैर्दानैर्दत्तैश्च सत्तम
एकैव पाति नरकात्सुखमेकैव कारयेत्
स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् प्रसूयमानां गां दत्त्वा महत्पुण्यफलं लभेत्
यावंति धेनुरोमाणि वत्सस्यापि नराधिप
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् 4.158.
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः
यो ददाति सुवर्णेन बहुना सह भाविनीम्
न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा
स्त्रियश्च त चंद्रसमानवक्त्राः प्रतप्तजांबूनदतुल्यवर्णाः
गोसहस्रप्रदानविधिवर्णनम् कस्मिन्काले प्रदातव्यं कथं देयं च तद्भवेत्
ब्रह्मणा सृजता लोकान्वृत्तिहेतोः प्रजेश्वर
यासां मूत्रपुरीषेण देवतायतनान्यपि
मूलं यज्ञस्य काम्यस्य सर्वदेवमयाः शुभाः
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्
यासां पुत्रैर्धृता लोका धारिताः सर्वदेवताः
एकाऽपि गौर्गुणोपेता कृत्स्नं तारयते कुलम्
सुवत्सा सुदुहा चैव पापरोगविवर्जिता
किं पुनर्दश यो दद्याच्छतं वा विधिपूर्वकम्
गोसहस्रं पुरा दत्तं नहुषेण महीभृता 4.159.
गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया
श्रूयते पितृभिर्गीता गाथास्ताः शृणु भूपते
यदि कश्चित्कुलेऽस्माकं गोसहस्रं प्रदापयेत्