दानकाले तु ये देवास्तीर्थानि मनवस्तथा
नेत्रयोः सूर्यशशिनौ जिह्वायां तु सरस्वती
शृंगाग्रगौ सदा चास्या देवौ रुद्रपितामहौ कुक्षौ समुद्राश्चत्वारो योनौ त्रिपथगामिनी
ऋषयो रोमकूपेषु अपाने वसुधा स्थिता
धर्मकामार्थमोक्षास्तु पादेषु परिसंस्थिताः
पृष्ठभागे स्थितो मेरुर्विष्णुः सर्वशरीरगः 4.156.
काञ्चनेन कृता धेनुः सर्वदेवमयी स्मृता
कर्मभूमौ हि मर्त्यानां दानमेतत्सुदुर्लभम्
पावनं तारणं चैव कीर्तिदं शांतिदं तथा
नारी वा पूज्यते देवैर्विमानवरमास्थिता
सर्वाभरणसंपन्नः सर्वद्वंद्वविवर्जितः
आधि व्याधि विनिर्मुक्तो रूपवान्प्रियदर्शनः सर्वान्कामानवाप्नोति जायमानः पुनः पुनः
आमन्त्र्य साधुकुलशीलगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुवर्णधेनुदानव्रतविधिवर्णनं नाम षट्पंचाशदुत्तरशततमोऽध्यायः
रत्नधेनुदानव्रतविधिवर्णनम् रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम्
पुण्यं दिनमथासाद्य गोमयेनोपलेपनम्
धेनुं रत्नमयीं कुर्यात्तत्तत्संकल्पपूर्विकाम्
पुष्परागशतं धेनोः पादयोः परिकल्पयेत्
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वये स्मृते
ग्रीवायां नेत्रपुटके गोमेदकशतं तथा
स्फाटिकैरुदरं कार्यं सौगन्धिकशतं कटौ
सूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दनैः
गारुत्मतशतं तद्वदपाने परिकल्पयेत्
कुर्याच्छर्करया जिह्वां गोमयं च गुडात्मकम् 4.157.
पुच्छाग्रे चामरं दद्यात्स्तनयोस्ताम्रदोहनम्
नानाफलानि पार्श्वेषु कृत्वा पूजां प्रयत्नतः
त्वां सर्वदेवगणवासमिति स्तुवंति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः
एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत्
ततश्च दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत्
कल्पकोटिशतं साग्रं शिवलोके सुखं वसेत्