एवमुच्चार्य मंत्रां ते विप्राय प्रतिपादयेत्
प्रदक्षिणा मही तेन कृता भवति भारत 4.155.
सर्वे रसाः सर्वमन्नं सर्वं च सचराचरम्
भवति दत्त्वा नृणां तु रसधेनुं न संशयः
पर्णौर्णकंबलगलां लवणाढकेन कृत्वा फलस्तनवतीमपि लावणाख्याम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणधेनुदानव्रतविधिवर्णनं नाम पंचपंचाशदुत्तरशततमोऽध्यायः
सुवर्णधेनुदानव्रतवर्णनम् यां दत्त्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
सुरापो ब्रह्महा गोघ्नो भीरुर्भग्नव्रतोऽपि वा
मुच्यते पातकैः सर्वैर्दत्त्वा काञ्चनधेनुकाम्
अर्द्धेन वा प्रकुर्वीत शक्त्या वा नृपसत्तम
विभक्ताङ्गीं सुजघनां सुमनोहरकर्णिकाम्
चतुर्थेन तु भागेन वत्सं तस्याः प्रकल्पयेत्
ताम्रशृंगीं तथा कुर्याद्वैडूर्यमयकंबलाम्
कृष्णाजिने गुडप्रस्थं तत्रस्थां कारयेच्छुभाम्
तथाष्टादश धान्यातपत्रोपानद्युगान्विताम्
दीपकान्नादिलवणशर्कराधान्यकान्विताम् 4.156.
स्नातः प्रदक्षिणीकृत्य धेनुं सर्वाङ्गसंयुताम्
त्वं सर्वदेवगणमन्दिरभूषणासि विश्वेश्वरत्रिपथगोदधिपर्वतानाम्
लोके यथेप्सितफलार्थविधायिनी त्वामासाद्य को हि भयभाग्भवतीह मर्त्यः
एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत्
दानकाले तु ये देवास्तीर्थानि मनवस्तथा
नेत्रयोः सूर्यशशिनौ जिह्वायां तु सरस्वती
शृंगाग्रगौ सदा चास्या देवौ रुद्रपितामहौ कुक्षौ समुद्राश्चत्वारो योनौ त्रिपथगामिनी
ऋषयो रोमकूपेषु अपाने वसुधा स्थिता
धर्मकामार्थमोक्षास्तु पादेषु परिसंस्थिताः
पृष्ठभागे स्थितो मेरुर्विष्णुः सर्वशरीरगः 4.156.
काञ्चनेन कृता धेनुः सर्वदेवमयी स्मृता
कर्मभूमौ हि मर्त्यानां दानमेतत्सुदुर्लभम्
पावनं तारणं चैव कीर्तिदं शांतिदं तथा
नारी वा पूज्यते देवैर्विमानवरमास्थिता