आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्
त्वं चैवाज्यमयी देवि कल्पितासि मया किल
तं च विप्रं महाभाग मनसेव घृतार्चिषा 4.154.
दक्षिणासहिता धेनुः कल्पिताज्यमयी शुभा
इत्युदाहृत्य विप्राय तां गां तु प्रतिपादयेत्
अनेन च विधानेन नवनीतमयी शुभा
शृणु पार्थ महाबाहो प्रदानफलमुत्तमम्
घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषान्
निष्किल्विषं पदं यांति निष्कामा घृतधेनुदाः
घृतं प्रयच्छतां भीता भवंत्यखिलदेवताः
मायाजलं सुतकलत्रमहोर्मिमालं लोभोग्रनक्रविषमं बहुपुण्यभाजः
लवणधेनुदानव्रतवर्णनम् युधिष्ठिर उवाच कृष्णकृष्ण महाबाहो सर्वशास्त्रविशारद
येन दत्तेन दानानि सर्वाण्येव भवंत्युत
प्रायश्चित्तविशुद्धिश्च तन्मे कथय सुव्रत शृणु राजन्प्रवक्ष्यामि दानानामुत्तमोत्तमम्
ख्यातं लवणधेन्वाख्यं सर्वकामप्रदं नृणाम्
विश्वासघाती क्रूरात्मा सर्वपापरतोऽपि वा
सुभगो धनसंपन्नो दीर्घायुरपराजितः
विधिं वक्ष्यामि राजेन्द्र लवणस्येह कल्पनम्
आविकं चर्म विन्यस्य पूर्वाशाभिमुखं स्थितम्
आढकेनैव कुर्वीत वहुवित्तोऽल्पवित्तवान्
कार्या शर्करया जिह्वा गन्धप्राणवती तथा 4.155.
कंबलं पट्टसूत्रेण ग्रीवायां घण्टिकां तथा
कपोलौ सक्तुपिण्डाभ्यां यवानास्ये प्रदापयेत्
एवं वै सप्तधान्यानि यथालाभं प्रकल्पयेत्
लांगूले कंबलं दद्याद्द्राक्षां क्षीरप्रदेशतः
एवं सम्यक्परिस्थाप्य रसरस्यमयीं च गाम्
एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः कृत्वा प्रदक्षिणां गां तु पुत्रभार्यासमन्वितः
ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप
लवणे वै रसाः सर्वे लवणे सर्वदेवताः