ईदृग्बहुफला भक्तिः सर्वधातरि केशवे
मुधैवोक्तं सुधापानं मुधा तद्धि विचेष्टितम्
आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्
संवत्सरास्तथा मासा विफला दिवसाश्च ते
यो न वित्तर्द्धिविभवैर्न वासोभिर्न भूषणैः
जलधेनोस्तु माहात्म्यं निशम्येदृग्विधं नराः
कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि
संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना
ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः
दुःसहो नारको वह्निरविषह्या च यातना 4.153.
आदेशिको देशिको हि यममार्गे सुदुस्तरे
इष्टेन किं क्रतुशतेन सुदुष्करेण क्लेशाधिकेन सुकृतैर्नियमैर्व्रतैश्च
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जलधेनुदानव्रतविधिवर्णनंनाम त्रिपंचाशदुत्तरशततमोऽध्यायः
घृतधेनुदानव्रतवर्णनम् दीयते येन विधिना यादृग्रूपां च कारयेत्
गव्यस्य सर्पिषः कुम्भान्गंधमाल्यविभूषितान्
इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास्तथा
सप्तधान्यमये पार्श्वे पटोर्णेन च कम्बलम्
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम्
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः
तद्वत्कल्पनया धेनोर्वत्सं च परिकल्पयेत्
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्
त्वं चैवाज्यमयी देवि कल्पितासि मया किल
तं च विप्रं महाभाग मनसेव घृतार्चिषा 4.154.
दक्षिणासहिता धेनुः कल्पिताज्यमयी शुभा
इत्युदाहृत्य विप्राय तां गां तु प्रतिपादयेत्
अनेन च विधानेन नवनीतमयी शुभा
शृणु पार्थ महाबाहो प्रदानफलमुत्तमम्
घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषान्
निष्किल्विषं पदं यांति निष्कामा घृतधेनुदाः