नमोऽस्तु वासुदेवाय ह्येवमुच्चारिते च तैः
समभज्यंत वस्त्राणि समुत्पेतुरयोमुखाः
प्रकाशस्तमसो जज्ञे नरकाद्भानुभिः सह
निरुत्साहा जडधियो बभूवुर्यमकिंकराः
दिव्यः सुगंधि पवनो मनःप्रीतिकरस्तथा
तं तादृशमथालक्ष्य तदा वैवस्वतो यमः
पूजयित्वा च तानाह कृष्णाय स कृतांजलिः
विष्णो देव जगद्धातर्जनार्दन जगत्पते
अच्युतायाप्रमेयाय मायावामनरूपिणे
नमस्ते वासुदेवाय धीमते पुण्यकीर्तये 4.153.
तस्य यज्ञवराहस्य विष्णोरमिततेजसः
एवं स्तुत्वा हृषीकेशं धर्मराजस्य पश्यतः
मुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप
संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च
अहो सुदुस्तरा विष्णोर्मायेयमतिगह्वरी
जीवो गच्छति कीटत्वं यूकामत्कुणयोनिताम्
ततश्च पशुतां प्राप्य नरत्वमभिवांछति तां प्राप्य च श्रियं परां नरो मायाविमोहितः
दुस्तरापि सुसाध्या सा माया कृष्णस्य मोहिनी
अवाप्यैवं च गार्हस्थ्यमवाप्यैवं च तत्परम्
अविरोधेन विषयान्भुञ्जन्विष्णुं समाश्रयेत् । 4.153.
ईदृग्बहुफला भक्तिः सर्वधातरि केशवे
मुधैवोक्तं सुधापानं मुधा तद्धि विचेष्टितम्
आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्
संवत्सरास्तथा मासा विफला दिवसाश्च ते
यो न वित्तर्द्धिविभवैर्न वासोभिर्न भूषणैः
जलधेनोस्तु माहात्म्यं निशम्येदृग्विधं नराः
कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि
संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना
ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः
दुःसहो नारको वह्निरविषह्या च यातना 4.153.