शेषपर्यंकशयनः श्रीमाञ्छार्ङ्गविभूषितः
इत्युच्चार्य जगन्नाथं विप्राय प्रति पाद्य ताम्
अनेन विधिना दत्त्वा जलधेनुं जनाधिप
शरीरारोग्यमतुलं प्रशमः सर्वकालिकः
अत्रापि श्रूयते भूप मुद्गले न महात्मना
स मुद्गलः पुरा विप्रो यमलोकगतो मुनिः
दीप्ताग्नितीक्ष्णयन्त्रस्थाः क्वाथतैलमयास्तथा
व्रणक्षारनिपातोथ कुम्भीपाकमहालयाः
आह्लादं ते तदा जग्मुः पापास्तदनुकंपया
तदवस्थं विलोक्याथ मुनिर्नारकमण्डलम् 4.153.
तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः
दानानुभावात्सर्वेषां नारकाणां द्विजोत्तम
त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्
तस्मात्वज्जन्मनोऽतीते तृतीये द्विज जन्मनि
ये त्वां पश्यंति शृण्वंति ये च ध्यायंति मानवाः
निवृत्तिः परमा तेषां सर्वाह्लादप्रदायिनी
आह्लादहेतुजननं नास्ति विप्रेन्द्र तादृशम्
न दोषो न ज्वरो नार्तिर्न क्लमो द्विज जायते
स त्वं गच्छ गृहीत्वार्धमस्मतो द्विजसत्तम
कृष्णस्तु पूजितो यैस्तु ये कृष्णार्थमुपोषिताः 4.153.
नमः कृष्णाच्युतानंत वासुदेवेत्युदीरितम्
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति
स एव नाथः सर्वस्य तन्नियोगकरा वयम्
इत्थं निशम्य वचनं यमस्य वदतोऽखिलम्
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः
नमः पङ्कजनेत्राय नमः पङ्कजनाभये
गोविंदाय नमो नित्यं नमश्चोदधिशायिने
शार्ङ्गिणे शितखड्गाय शंखचक्रगदाभृते
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे
वासुदेव नमस्तुभ्यं नमः कैटभसूदिने 4.153.