चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम्
वाचा कृतं तु मनसा कर्मणा यच्च संचितम्
मुशलेनोद्यते नापि लंबिते ब्राह्मणे तथा
सुरापानेन यत्पापमभक्ष्यस्य च भक्षणात्
यममार्गे महाघोरे नदी वैतरणी स्मृता
यत्र लोहमुखाः काका यत्र श्वानो भयावहाः
असिपत्रवनं चैव लोहकंटकशाल्मलीम्
विमाने कांचने दिव्ये मणिरत्नविभूषिते
गुणहीने न दातव्या न दातव्या धनेश्वरे 4.152.
एका एकस्य दातव्या मुनिभिः कथितं पुरा
तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्रदम्
विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्नुते
विभज्यमानान्येतानि दातारं पातयंत्यधः
अस्या दानप्रभावेन विमानं सर्वकामिकम्
एषा चैव प्रदातव्या प्रयतेनान्तरात्मना
चन्द्रसूर्योपरागे तु विषुवे अयने तथा
वैशाख्यां मार्गशीर्ष्यां वा गजच्छायासु चैव हि
यश्च गृह्णाति विधिवद्दीयमानां च पश्यति 4.152.
धेनुं धनाधिपतयो मगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन
प्रतिगृह्णामि देवि त्वां कुटुंबभरणाय च
जलधेनुदानव्रतविधिवर्णनम् देवदेवो हृषीकेशः पूजितः सर्वभावनः
जलकुंभं नरव्याघ्र स्थापयित्वा सुपूजितम्
सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्
प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम्
चतुर्भिः संयुतं रौप्यं तिलपात्रैश्चतुर्दिशम् ।। स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखम
सवत्सां च प्रतिष्ठाप्य गोमयेनोपशोभिताम्
ततः समभ्यर्च्य विभुं वासुदेवं सनातनम्
संकल्प्य जलधेनुं च कुंभं तमभिमंत्र्य च सोमशक्रार्कशक्तिर्या धेनुरूपेण सास्तु मे
एवमामंत्र्य विधिवत्सफलां वत्सकान्विताम्
सितवस्त्रधरः शांतो वीतरागो विमत्सरः 4.153.