प्रशस्तपत्रश्रवणां फलदंतवतीं शुभाम्
सितवस्त्रशिरालम्बां सितसर्षपरोमिकाम्
ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः
या लक्ष्मीः सर्वभूतानां या वै देवेष्ववस्थिता
ततः प्रदक्षिणां कृत्वा पूजयित्वा प्रणम्य च
अनेन विधिना दत्त्वा तिलधेनुं नराधिप
यश्च गृह्णाति विधिवद्दीयमानां प्रमोदते
तेपि दोषविनिर्मुक्ता ब्रह्मलोकं व्रजंति ते
धेनुं तिलमयीं दत्त्वा न शोचति कृताकृते 4.152.
एकाहमथ वा राजन्न युच्छेदन्तरात्मना
चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम्
वाचा कृतं तु मनसा कर्मणा यच्च संचितम्
मुशलेनोद्यते नापि लंबिते ब्राह्मणे तथा
सुरापानेन यत्पापमभक्ष्यस्य च भक्षणात्
यममार्गे महाघोरे नदी वैतरणी स्मृता
यत्र लोहमुखाः काका यत्र श्वानो भयावहाः
असिपत्रवनं चैव लोहकंटकशाल्मलीम्
विमाने कांचने दिव्ये मणिरत्नविभूषिते
गुणहीने न दातव्या न दातव्या धनेश्वरे 4.152.
एका एकस्य दातव्या मुनिभिः कथितं पुरा
तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्रदम्
विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्नुते
विभज्यमानान्येतानि दातारं पातयंत्यधः
अस्या दानप्रभावेन विमानं सर्वकामिकम्
एषा चैव प्रदातव्या प्रयतेनान्तरात्मना
चन्द्रसूर्योपरागे तु विषुवे अयने तथा
वैशाख्यां मार्गशीर्ष्यां वा गजच्छायासु चैव हि
यश्च गृह्णाति विधिवद्दीयमानां च पश्यति 4.152.
धेनुं धनाधिपतयो मगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन
प्रतिगृह्णामि देवि त्वां कुटुंबभरणाय च