इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशत्तमोऽध्यायः
बहुत्वात्सर्ववेदानां श्रोतुमिच्छामहे वयम्
केन स्तोत्रेण वेदानां पाठस्य फलमाप्नुयात्
व्याधकर्मेति विख्यातो ब्राह्मण्यां शूद्रतोऽभवत्
त्रिपाठिनो द्विजस्यैव भार्या नाम्ना हि कामिनी
द्विजस्सप्तशतीपाठे वृत्त्यर्थी कर्हिचिद्गतः
तत्र मासो गतः कालो नाययौ स स्वमंदिरम्
दृष्ट्वा निषादं सबलं काष्ठभारोपजीविनम्
तदा गर्भं दधौ सा च व्याधिवीर्येण संचि तम्
द्वादशाब्दे गते काले स धूर्तो वेदवर्जितः
निष्कासितौ द्विजेनैव मातृपुत्रौ द्विजाधमौ 3.2.33.
प्रत्यहं चंडिकापाठं कृत्वा विंध्यगिरौ वसन्
निषादस्य गृहे चोभौ वने गत्वोषतुर्मुदा
व्याधकर्मा तु चौर्येण पितृमातृप्रियंकरः
चौरवृत्तिपरो धूर्तः स्त्रिया भूषणमाहरत्
कदाचित्प्राप्तवांस्तत्र द्विजवस्त्रसमुद्गतम्
पाठपुण्यप्रभावेण धर्मबुद्धिस्ततोऽभवत्
शिष्यत्वमगमत्तत्राक्षरमैशं जजाप ह
पठित्वाक्षरमालां च जजापादिचरित्रकम्
अन्नपूर्णां महादेवीं तुष्टाव परया मुदा 3.2.33.
नित्यानंदकरी पराभयकरी सौंदर्यरत्नाकरी निर्धूताखिलपापपावनकरी काशीपुराधीश्वरी
स इत्यष्टोत्तरं जप्त्वा ध्यानस्तिमितलोचनः
दत्त्वा तस्मै हि ऋग्विद्यां पुनरंतरधीयत
विक्रमादित्यभूपस्य यज्ञाचार्यो बभूव ह
एतत्ते वर्णितं विप्र पुण्यमादिचरित्रकम्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रथमच रित्रवर्णनंनाम त्रयस्त्रिंशोध्यायः
बभूव मद्यमांसाशी भीमवर्मेति विश्रुतः
मांसलोभेन स खलः सूकरान्ग्रामकुक्कुटान्
नरमांसं स क्रव्यादस्त्यक्त्वान्यान्भक्षकोऽभवत् विसूच्यग्निवशं यातो ममार च युवापि सः
कारितश्चंडिकापाठस्तेन दुष्टेन भीरुणा