वृद्धा सरोगा हीनांगी वंध्या दुष्टा मृतप्रजा
सा दत्तैव हरेत्पापं श्रोत्रियायाहिताग्नये
अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च
घृतक्षीराभिषेकं च कृत्वा विष्णोः शिवस्य च
समभ्यर्च्य यथान्यायं पुष्पादिभिरनुक्रमात्
सवत्सां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्
शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत्
अश्वं सदा सुकर्णे वा दासीं शिरसि दापयेत्
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् 4.151.
इमां च प्रतिगृह्णीष्व धेनुर्दत्ता मया तव
अनुव्रजेच्च गच्छंतं पदान्यष्टौ नराधिप
सर्वकामसमृद्धात्मा स्वर्गलोकं स गच्छति
सप्त जन्मकृतात्पापान्मोचयत्यवनीपते
फलमाप्नोति राजेन्द्र दक्षायैवं जगौ हरिः
भवत्यसौ पापहरा यावदिंद्राश्चतुर्दश
प्रायश्चित्तमिदं प्रोक्तमनुतापोपबृंहितम्
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः
गोभ्योधिकं जगति नापरमस्तिकिञ्चिद्दानं पवित्रमिति शास्त्रविदो वदंति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रत्यक्षधेनुदानव्रत विधिवर्णनं नामैकपंचाशदुत्तरशततमोऽध्यायः
धेनुदानव्रतविधिवर्णनम् विशेषविधिना याश्च देयाः कामानभीप्सुभिः
कामं यद्दीयते दानं समग्रं तत्सुखावहम्
तस्मान्न दक्षिणाहीनं विधानविकलं तथा
अन्यथा दीयमानं तदहंकाराय केवलम्
तिलधेनुं प्रवक्ष्यामि शृणु पार्थिवसत्तम
यां दत्त्वा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः
महापातकयुक्तश्च संयुक्तश्चोपपातकैः
अनुलिप्ते महीपृष्ठे कृष्णाजिनसमावृते
तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रवर्णकाः
द्रोणस्य वत्सकं कुर्याच्चतुराढकिकां च गाम् 4.152.
कार्या शर्करया जिह्वा गुडेनास्यं च कम्बलः