भूयश्च श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्
नहि दानात्परतरमन्यदस्तीति मे मतिः
अनीतं याति चाध्वानं धनं विप्रकरार्पितम्
किं कायेन सुपुष्टेन बलिना चिरजीविना
ग्रासादर्द्धमपि ग्रास मर्थिभ्यः किं न दीयते
एकस्मिन्नप्यतिक्रांते दिने दानविवर्जिते
यस्य त्रिवर्गशून्यानि दिनान्यायांति यांति च
यैर्न दत्तं न च हुतं न तीर्थे मरणं कृतम्
दीना निरशना रूक्षाः कपालाङ्कितपाणयः 4.151.
आयासशतलब्धस्य प्राणेभ्योपि गरीयसः
नोपभोगैः क्षयं यांति न प्रदानैः समृद्धयः
अदृष्टपरतत्त्वोपि पात्रेभ्यो विसृजेद्धनम्
दानानि बहुरूपाणि कथयामि तवानघ
किञ्चिद्व्रतं यत्क्रियते पूज्यते च त्रिलोचनः
यानि दानानि देयानि तान्याचक्ष्य यदूत्तम
येन चैव विधानेन दानं पुण्यसुखावहम्
आसप्तमं पुनंत्येते दोहवाहनवेदनैः
गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः
देयाः किंलक्षणा गावः काश्च राजन्विवर्जिताः 4.151.
न्यायार्जिता सवत्सा च प्रदेया श्रोत्रियाय गौः
वृद्धा सरोगा हीनांगी वंध्या दुष्टा मृतप्रजा
सा दत्तैव हरेत्पापं श्रोत्रियायाहिताग्नये
अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च
घृतक्षीराभिषेकं च कृत्वा विष्णोः शिवस्य च
समभ्यर्च्य यथान्यायं पुष्पादिभिरनुक्रमात्
सवत्सां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्
शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत्
अश्वं सदा सुकर्णे वा दासीं शिरसि दापयेत्
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् 4.151.
इमां च प्रतिगृह्णीष्व धेनुर्दत्ता मया तव