इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोनपंचा शदुत्तरशततमोऽध्यायः
वृषदानविधिवर्णनम् न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः
तस्माद्गोवृषकल्पस्य विधानं कथयाच्युत
पवित्रं पावनं चैव सर्वदानोत्तमं तथा
दशधेनुसमोऽनड्वानेकश्चैव धुरंधरः
वोढा च चारुपृष्ठांगो ह्यरोगः पांडुनंदन
धुरंधरः स्थापयते एक एव कुलं महत्
अलंकृत्य वृषं शांतं पुण्येह्नि समुपस्थिते
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते
अष्टमूर्तेरधिष्ठानमतः पाहि सनातन 4.150.
सप्तजन्मकृतं पापं वाङ्मनः कायकर्मजम्
यानं वृषभसंयुक्तं दीप्यमानं सुशोभितम्
यावंति तस्य रोमाणि गोवृषस्य महीपते
गोलोकादवतीर्णस्तु इहलोके द्विजोत्तमः
तवोक्तं वै महाराज कस्य देयो वृषोत्तमः
येषां सदा वै श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः
गात्रे दृढं भारसहं सुपुष्टं सुशृङ्गिणं सर्वगुणोपपन्नम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषदानविधिवर्णनं नाम पंचाशदुत्तरशततमोऽध्यायः
प्रत्यक्षधेनुदानव्रतविधिवर्णनम्( अथ विविधदानानि) संसारासारतां ज्ञात्वा श्रुतश्च व्रतविस्तरः
भूयश्च श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्
नहि दानात्परतरमन्यदस्तीति मे मतिः
अनीतं याति चाध्वानं धनं विप्रकरार्पितम्
किं कायेन सुपुष्टेन बलिना चिरजीविना
ग्रासादर्द्धमपि ग्रास मर्थिभ्यः किं न दीयते
एकस्मिन्नप्यतिक्रांते दिने दानविवर्जिते
यस्य त्रिवर्गशून्यानि दिनान्यायांति यांति च
यैर्न दत्तं न च हुतं न तीर्थे मरणं कृतम्
दीना निरशना रूक्षाः कपालाङ्कितपाणयः 4.151.
आयासशतलब्धस्य प्राणेभ्योपि गरीयसः