कन्याप्रदानवर्णनम् ( अथ कन्यादानम्) सप्तपूर्वान्भविष्यांश्च स्वकुले सप्त मानवान्
तेन कन्याप्रदानेन स तारयत्यसंशयम्
प्राजापत्येन विधिना आत्मानं च समुद्धरेत्
भूगवाश्वप्रदानानि गजदानं तथैव च
बहुवर्षसहस्राणि पुरीषं काकमश्नुते
बहून्यब्दसहस्राणि तथा अशुचिभुङ्नरः
दत्त्वा चाधिकवर्णाय द्विगुणं निर्गुणं तथा
चूडोपनयाद्यैश्च सोऽश्वमेधफलं लभेत्
कन्यया सह दत्तं च सुवर्णं वह्निमूलकम्
कन्यादानादवाप्नोति दक्षलोकं नरोत्तम 4.148.
विमानमाहृत्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम्
ब्राह्मणशुश्रूषाविधिवर्णनम् ब्राह्मणेभ्यः परं नास्ति नास्ति भूतं जगत्त्रये
अदेवं दैवतं कुर्युः कुर्युर्देवमदैवतम्
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति स्मृतिः
येषामश्नंति वक्त्रेण देवताः पितरस्तथा
यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति
तालवृंतानिलेनैव श्रांतसंवाहनेन च
पादशौचप्रदानेन पादयोः सेचनेन च
अनिष्ट्वापि समाप्नोति स्वर्गलोकं च शाश्वतम्
यद्ब्राह्मणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोनपंचा शदुत्तरशततमोऽध्यायः
वृषदानविधिवर्णनम् न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः
तस्माद्गोवृषकल्पस्य विधानं कथयाच्युत
पवित्रं पावनं चैव सर्वदानोत्तमं तथा
दशधेनुसमोऽनड्वानेकश्चैव धुरंधरः
वोढा च चारुपृष्ठांगो ह्यरोगः पांडुनंदन
धुरंधरः स्थापयते एक एव कुलं महत्
अलंकृत्य वृषं शांतं पुण्येह्नि समुपस्थिते
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते