मधुरं पयसा युक्तं सुहृद्भिर्बांधवैः सह
शुक्लायामथ कृष्णायां तृतीयायां तथा तिथौ 4.147.
यदा वा जायते वित्तं चित्तं च वरवर्णिनि
एवं कृते च यत्पुण्यं तन्न शक्यं निवेदितुम्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
ब्रह्मकाद्रुद्रलोकं तत्परं विष्णुसंनिधौ
ततो भुक्त्वा शुचिः श्रीमान्भोगांस्त्रैलोक्यसुंदरि
य इदं शृणुयान्नित्यं वाचयमानं समंततः
त्वया कांचनपुर्याख्यं व्रतमेतत्कृतं पुरा
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीलक्ष्मीविष्णुसंवादे कांचनपुरीव्रतवर्णनं नाम सप्तचत्वारिंशदुत्तर शततमोऽध्यायः
कन्याप्रदानवर्णनम् ( अथ कन्यादानम्) सप्तपूर्वान्भविष्यांश्च स्वकुले सप्त मानवान्
तेन कन्याप्रदानेन स तारयत्यसंशयम्
प्राजापत्येन विधिना आत्मानं च समुद्धरेत्
भूगवाश्वप्रदानानि गजदानं तथैव च
बहुवर्षसहस्राणि पुरीषं काकमश्नुते
बहून्यब्दसहस्राणि तथा अशुचिभुङ्नरः
दत्त्वा चाधिकवर्णाय द्विगुणं निर्गुणं तथा
चूडोपनयाद्यैश्च सोऽश्वमेधफलं लभेत्
कन्यया सह दत्तं च सुवर्णं वह्निमूलकम्
कन्यादानादवाप्नोति दक्षलोकं नरोत्तम 4.148.
विमानमाहृत्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम्
ब्राह्मणशुश्रूषाविधिवर्णनम् ब्राह्मणेभ्यः परं नास्ति नास्ति भूतं जगत्त्रये
अदेवं दैवतं कुर्युः कुर्युर्देवमदैवतम्
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति स्मृतिः
येषामश्नंति वक्त्रेण देवताः पितरस्तथा
यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति
तालवृंतानिलेनैव श्रांतसंवाहनेन च
पादशौचप्रदानेन पादयोः सेचनेन च
अनिष्ट्वापि समाप्नोति स्वर्गलोकं च शाश्वतम्
यद्ब्राह्मणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः