शिरः सर्वात्मने देवि देवदेवस्य पूजयेत्
इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् 4.147.
पूजा गणपतेः कार्या तथा होमो विधानतः
पायसं घृतपूरांश्च मोदकान्पूरिकास्तथा
देशकालोद्भवान्येव फलानि विनिवेदयेत्
एतेन तु विशालाक्षि मूलमन्त्रेण दापयेत्
अभिमंत्र्य प्रयत्नेन विष्णुस्तबकवाचकैः
षोडशाथ सपत्नीकान्पूजयेच्च यथाविधि
विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम्
फलानि सप्त धान्यानि भोजनं च यदीप्सितम्
शय्यां सोपस्करां चैव वस्त्रेणाच्छाद्य यत्नतः
व्रते पूर्णे च गौर्देया सर्वोपस्करसंयुता यथा कुर्यात्प्रयासेन यथा कर्ता न पश्यति ।। 4.147.
दीपांस्तु दीपितांस्तत्र आनयेद्यज्ञमण्डपम्
श्रुतवाञ्छास्त्रवित्प्राज्ञः कृतसर्वाघसंक्षयः
सर्वकामप्रदां पश्य कांचनाख्यां पुरीमिमाम्
एवमुक्तो महाभाग पटमुन्मुच्य नेत्रयोः
दृष्ट्वा तां नगरीं देवि यजमानः समाहितः
अथ वा शंखमादाय पात्रालाभे तु सुन्दरि
सिद्धार्थमक्षताः पूर्वं रोचना दधि वा पुनः
लक्ष्मीनारायणौ देवौ सर्वकामफलप्रदौ
नारायण हृषीकेश ज्ञानज्ञेय निरंजन
( इत्यर्घमंत्रः) देव्यास्त्वर्घ्यं प्रदातव्यं भक्तियुक्ते न चेतसा।।4.147.
जानुभ्यामवनिं गत्वा मंत्रमेतमुदीरयेत्
पार्वत्या पूजिता लक्ष्मीः स्कंदवैश्रवणेन च
सौभाग्यं देहि मे पुत्रान्धनं पौत्रांश्च पूजितान्
य एवं पुरतो दत्त्वा पूर्वोक्तविधिना तव
गीतनृत्यविनोदेन उपाख्यानैश्च वैष्णवैः
उन्निद्रो जागृयाद्यस्तु शतयज्ञफलं लभेत्
ब्राह्मणांश्च सपत्नीकान्परिधाप्यानुभोजयेत्
दीनांधबधिरान्पंगून्सर्वांस्तान्परितोषयेत्