पाखंडिनो विकर्मस्थान्धूर्तांश्च कितवाच्छठान्
उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः 4.147.
द्वादशाक्षरमंत्रेण तज्जलं चाभिमंत्रयेत्
शमीवृक्षमया वेदी चतुःस्तंभसमन्विता
वस्त्रेणावेष्टिताः स्तम्भा वितानवर मण्डिताः
मध्ये तु मंडलं कार्यं पद्माख्यं वर्णकैः शुभैः मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम्
आसनं तत्र विन्यस्य कोमलं वस्त्रवेष्टितम्
अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः
पञ्चरत्नसमायुक्तं वस्त्रेणावे ष्टयेद्धनम्
तस्योपरिष्टात्संस्थाप्य कांचनाख्यां पुरीं शुभाम्
सामान्यैकपला कार्या कलशैस्तु समन्विता
तदग्रे कदलीस्तम्भैस्तोरणं परिकल्पयेत् 4.147.
प्रतिष्ठां कारयेत्तस्य वेदमन्त्रैः सुशोभनैः
नेत्रे रत्नमये कार्ये दशना वज्रभूषिताः
अंगं स्वर्णमयं कार्यं शंखचक्रगदायुधम्
तमेव गंधपुष्पाद्यैर्मंत्रमुच्चार्य पूजयेत्
शेषा वर्णाः पुराणोक्तैस्ताञ्छृणुष्व मम प्रिये
त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः
दामोदरायेत्युदरं हृदयं विश्वरूपिणे
कण्ठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च
शिरः सर्वात्मने देवि देवदेवस्य पूजयेत्
इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् 4.147.
पूजा गणपतेः कार्या तथा होमो विधानतः
पायसं घृतपूरांश्च मोदकान्पूरिकास्तथा
देशकालोद्भवान्येव फलानि विनिवेदयेत्
एतेन तु विशालाक्षि मूलमन्त्रेण दापयेत्
अभिमंत्र्य प्रयत्नेन विष्णुस्तबकवाचकैः
षोडशाथ सपत्नीकान्पूजयेच्च यथाविधि
विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम्
फलानि सप्त धान्यानि भोजनं च यदीप्सितम्