एभिः सर्वैर्महापापैर्मुच्यते नात्र संशयः
अतस्तेऽहं विधिं वक्ष्ये विधानमवधारय 4.147.
यः करोति नरो देवि नारी वा भक्तिसंयुता
तस्मिन्मासे च कर्तव्यं व्रतमेतच्च सुन्दरि
शुक्लकृष्णतृतीयायामेकादश्यां च पूर्णिमा
पर्वस्वन्येषु सर्वेषु दातव्या काञ्चनी पुरी
मृत्तिकालंभनं कार्यं मंत्रेणानेन सुव्रते
लोकानामुपकारार्थं वन्दनात्सिद्धिकामदा
( इति मृत्तिकामंत्रः आपस्तु विश्वयोनिर्हि विष्णुना निर्मिताः स्वयम्
( इत्यम्मंत्रः अनेन विधिना स्नात्वा यजमानः समाहितः
पाखंडिनो विकर्मस्थान्धूर्तांश्च कितवाच्छठान्
उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः 4.147.
द्वादशाक्षरमंत्रेण तज्जलं चाभिमंत्रयेत्
शमीवृक्षमया वेदी चतुःस्तंभसमन्विता
वस्त्रेणावेष्टिताः स्तम्भा वितानवर मण्डिताः
मध्ये तु मंडलं कार्यं पद्माख्यं वर्णकैः शुभैः मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम्
आसनं तत्र विन्यस्य कोमलं वस्त्रवेष्टितम्
अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः
पञ्चरत्नसमायुक्तं वस्त्रेणावे ष्टयेद्धनम्
तस्योपरिष्टात्संस्थाप्य कांचनाख्यां पुरीं शुभाम्
सामान्यैकपला कार्या कलशैस्तु समन्विता
तदग्रे कदलीस्तम्भैस्तोरणं परिकल्पयेत् 4.147.
प्रतिष्ठां कारयेत्तस्य वेदमन्त्रैः सुशोभनैः
नेत्रे रत्नमये कार्ये दशना वज्रभूषिताः
अंगं स्वर्णमयं कार्यं शंखचक्रगदायुधम्
तमेव गंधपुष्पाद्यैर्मंत्रमुच्चार्य पूजयेत्
शेषा वर्णाः पुराणोक्तैस्ताञ्छृणुष्व मम प्रिये
त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः
दामोदरायेत्युदरं हृदयं विश्वरूपिणे
कण्ठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च