धनं गुप्तं महीपाल सर्वपापापनुत्तये 4.146.
दानं दद्यान्महाराज ह्यशक्तौ तदभावतः
संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः
अनुज्ञां प्रार्थयेद्विप्रान्पापघ्वंसो ममास्तु वै
ततः सर्वं ब्राह्मणाय समर्प्य च क्षमापयेत्
यत्फलं सर्ववेदेषु सर्वतीर्थेषु यत्फलम्
इहलोके धनं धान्यं पुत्रमित्रसुखादिकम्
धर्ममथ च कामं च मोक्षं च नृपसत्तम
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
अशक्तस्तु तथा शक्तो वित्तशाठ्यविवर्जितः
कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् 4.146.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधशतव्रतवर्णनं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः
काञ्चनव्रतवर्णनम् वासुदेवं जगन्नाथं स्थितिसंयमकारकम्
परावराणां स्रष्टारं पुराणं परमव्ययम्
प्रणिपत्य महादेवं चराचरगुरुं हरिम्
भगवन्देवदेवेश भक्तानामनुकम्पक
प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि
उत्तमं सर्ववर्णानां व्रतानामपि चोत्तमम्
यथा नदीषु सर्वासु जाह्नवी लोकविश्रुता
ह्रदानामुदधिः श्रेष्ठो देवानां विष्णुरुत्तमः
न गङ्गा न कुरुक्षेत्रं न काशी न च पुष्करम्
गौर्या देव्या कृतं पूर्वं शंकरेण महात्मना 4.147.
दमयन्तीवियोगेन नलेन तु तथा कृतम्
कृतमेतद्व्रतं भद्रे स्वर्गमोक्षप्रदायकम्
शांडिल्या चाप्यरुन्धत्या उर्वश्या देवदत्तया
पाताले नागकन्याभिः कृतमेतत्सुशोभनम्
अन्याभिः सर्वनारीभिः सर्वकामफलेप्सुभिः
वसुप्रीतिकरं रम्यं व्रतानां परमं शृणु
गुरुभार्याभिगामी च ह्येतेषां संगमी च यः
अगम्यागमनो यस्तु मांसाशी वृषलीपतिः