शुद्धशुक्लांबरधरो मंत्रसंभारसंस्थितः तत्र त्वं सत्यया सार्द्धं सत्येश भव सन्निधौ ।। 4.146.
ॐ क्षीरसागरकल्लोले स्नाहि पापनिषूदन
हरस्व सर्वं दुरितं मम नाथ जनार्दन
यज्ञे योगे तथा सांख्ये पवित्रस्त्वं सदोच्यसे
विलिप्तं कर्मणा सर्वं सत्यं सत्यं न केनचित्
सत्यनाथ नमस्तुभ्यं मूर्तामूर्तस्वरूपिणे
वाराहाच्युत यज्ञेश लक्ष्मीकांत नृपेश्वर
संकर्षण महावीर्य सर्वेशामितविक्रम
(इति पूजामंत्रः) कृष्णकृष्ण प्रभो रामराम कृष्ण विभो हरे
पूजा चेयं मया दत्ता पितामहजगद्गुरो
धनं गुप्तं महीपाल सर्वपापापनुत्तये 4.146.
दानं दद्यान्महाराज ह्यशक्तौ तदभावतः
संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः
अनुज्ञां प्रार्थयेद्विप्रान्पापघ्वंसो ममास्तु वै
ततः सर्वं ब्राह्मणाय समर्प्य च क्षमापयेत्
यत्फलं सर्ववेदेषु सर्वतीर्थेषु यत्फलम्
इहलोके धनं धान्यं पुत्रमित्रसुखादिकम्
धर्ममथ च कामं च मोक्षं च नृपसत्तम
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
अशक्तस्तु तथा शक्तो वित्तशाठ्यविवर्जितः
कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् 4.146.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधशतव्रतवर्णनं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः
काञ्चनव्रतवर्णनम् वासुदेवं जगन्नाथं स्थितिसंयमकारकम्
परावराणां स्रष्टारं पुराणं परमव्ययम्
प्रणिपत्य महादेवं चराचरगुरुं हरिम्
भगवन्देवदेवेश भक्तानामनुकम्पक
प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि
उत्तमं सर्ववर्णानां व्रतानामपि चोत्तमम्
यथा नदीषु सर्वासु जाह्नवी लोकविश्रुता
ह्रदानामुदधिः श्रेष्ठो देवानां विष्णुरुत्तमः