गत्वा वृन्दावनं रम्यं गोपगोपीनिषेवितम्
वर्षान्ते च हरिः साक्षाद्ददौ ज्ञानमनुत्तमम्
शुकेन वर्णिता या वै विष्णुराताय धीमते
कथान्ते भगवान्विष्णुः प्रादुरासीज्जनार्दनः
त्वया ततमिदं विश्वं देवतिर्यङ्नरादिकम्
त्वन्नाम्ना नरकार्ताश्च ते कृतार्थाः कलौ युगे माहात्म्यं तस्य मे ब्रूहि यदि दत्तो वरस्त्वया
बौद्धराज्ये जगत्प्राप्ते दंभपाखण्डनिर्मिते जय सच्चिदानन्द विभो जगदानं दकारक
इति श्रुत्वा शिवा प्राह को देवोऽस्ति तवोत्तमः 3.2.32.
तस्माद्भूमिपवित्रत्वमिह प्राप्तं वरानने
इति श्रुत्वा शिवा देवी प्राप्तासीद्गुह्यकालयम्
चण्डीशश्च गणेशश्च नंदिनो गुह एव च
शृणु देवि कथां रम्यां मम मानससंस्थिताम्
अष्टाहे नेत्र उन्मील्य दृष्ट्वा निद्रागतां शिवाम्
कियती ते श्रुता गाथा श्रुत्वाह जगदंबिका
कोटरस्थः शुकः श्रुत्वा चिरंजीवत्वमागतः
स्थित्वा शिवस्य सदने मम ध्यानपरोऽभवत्
तेन प्राप्तं भागवतं माहात्म्यं चास्य दुर्लभम्
नर्मदाकूलमासाद्य श्रावयस्व कथां शुभाम् 3.2.32.
सत्पात्राय प्रदातव्यं विष्णुभक्ताय धीमते
इत्युक्त्वांतर्दधे देवो बोपदेवः प्रसन्नधीः
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशत्तमोऽध्यायः
बहुत्वात्सर्ववेदानां श्रोतुमिच्छामहे वयम्
केन स्तोत्रेण वेदानां पाठस्य फलमाप्नुयात्
व्याधकर्मेति विख्यातो ब्राह्मण्यां शूद्रतोऽभवत्
त्रिपाठिनो द्विजस्यैव भार्या नाम्ना हि कामिनी
द्विजस्सप्तशतीपाठे वृत्त्यर्थी कर्हिचिद्गतः
तत्र मासो गतः कालो नाययौ स स्वमंदिरम्
दृष्ट्वा निषादं सबलं काष्ठभारोपजीविनम्
तदा गर्भं दधौ सा च व्याधिवीर्येण संचि तम्
द्वादशाब्दे गते काले स धूर्तो वेदवर्जितः