भार्यामातृसुतादीनां त्यागश्चापूज्य पूजनम् 4.146.
संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम्
पैशुन्यं परदारेषु दानं वेश्याभिगामिता
अंत्यजागमनं मातृत्यागः पितृविवर्जनम्
अभक्ष्यभोजनं चापि पतिद्रोहोऽविचारता
इंद्रियाजयमायित्वं विद्याविस्मरणं तथा
भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम्
तडागागमने वृत्तं विद्याविक्रयकारिता
स्त्रीवधो गोवधश्चैव पौरोहित्यं सुहृद्वधः
शूद्रस्य चाग्निकर्मत्वमविधित्वं कुपुत्रता
श्रौतसंस्कार दीनत्वमार्तत्राणविवर्जनम् 4.146.
गुरुदाराभिगामित्वं संयोगश्चापि तैः सह
अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यतस्त्वमी
तथाप्येते न शक्यंते वक्तुं यस्मादनंतकाः
नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात्
ध्वजे सत्ये स्थितश्चायं लक्ष्म्या सह जगत्पतिः
कपिलः पश्चिमास्ये तु वाराहश्चोत्तरे स्थितः
तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि
पद्मकौमोदकीशंखचक्रायुधविधारणम्
पादाधस्ताद्विनिष्क्रांता गंगा पूता सदा नृभिः
जया च विजया चैव जयंती पापनाशिनी 4.146.
एताभिः शक्तिभिर्युक्तं लोकदिक्पालवर्जितम्
सर्वाभरणशोभाढ्यं भुक्तिमुक्तिप्रदं हरिम्
मार्गशीर्षादिमासेषु द्वादशस्वपि सर्वदा
कृतोपवासः शुद्धात्मा कुर्याद्व्रतमतंद्रितः
एवं तु नियमं कृत्वा दंतधावनपूर्वकम्
स्नात्वा तु नैत्यकं कर्म कृत्वा नैमित्तिकं ततः
सौवर्णं कारयेद्देवं पूर्वोक्तं सत्यरूपिणम्
सुवर्णपलमानेन कार्यमेतत्सविस्तरम्
तत्कर्णिकागतं देवं शक्तिवृन्दसमन्वितम्