इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रहोमविधिवर्णनं नाम पंच चत्वारिंशदुत्तरशततमोऽध्यायः
अपराधशतव्रतवर्णनम् अपराधशतं येन क्षयं याति शृणुष्व तत्
कः पूज्यते च वै तस्मिन्कदा वा क्रियते नरैः
शृणु राजन्महाबाहो अपराधशतव्रतम्
प्रायश्चित्तान्यशेषाणि सर्वपापापनुत्तये
पापं गुरुतरं चापि दह्यते तूलराशिवत्
न करोति नरो मोहाद्व्रतमेतद्दिनेदिने
अदातृत्वमशौचं च निर्दयत्वं स्पृहालुता
क्षतव्रतत्वं नास्तिक्यं वेदनिंदा कठोरता
मनसोऽनिग्रहश्चैव क्रोध ईर्ष्याथ मत्सरः
भार्यामातृसुतादीनां त्यागश्चापूज्य पूजनम् 4.146.
संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम्
पैशुन्यं परदारेषु दानं वेश्याभिगामिता
अंत्यजागमनं मातृत्यागः पितृविवर्जनम्
अभक्ष्यभोजनं चापि पतिद्रोहोऽविचारता
इंद्रियाजयमायित्वं विद्याविस्मरणं तथा
भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम्
तडागागमने वृत्तं विद्याविक्रयकारिता
स्त्रीवधो गोवधश्चैव पौरोहित्यं सुहृद्वधः
शूद्रस्य चाग्निकर्मत्वमविधित्वं कुपुत्रता
श्रौतसंस्कार दीनत्वमार्तत्राणविवर्जनम् 4.146.
गुरुदाराभिगामित्वं संयोगश्चापि तैः सह
अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यतस्त्वमी
तथाप्येते न शक्यंते वक्तुं यस्मादनंतकाः
नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात्
ध्वजे सत्ये स्थितश्चायं लक्ष्म्या सह जगत्पतिः
कपिलः पश्चिमास्ये तु वाराहश्चोत्तरे स्थितः
तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि
पद्मकौमोदकीशंखचक्रायुधविधारणम्
पादाधस्ताद्विनिष्क्रांता गंगा पूता सदा नृभिः